________________
૧૫૨
छाया :
गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि । सर्वज्ञभृत्यभावात् जैनत्वं यान्ति भावेन ।।१४।।
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૪
अन्वयार्थ :
गलितासग्गहदोसा=गलित असग्रहोषवाणा, अविज्जसंविज्जपयगया=अवेद्यसंवेद्यपध्मां रहेला सेवा, तेवि = तेस्रो पाग=खनाभिग्रहिङ मिथ्यादृष्टि भुवो पग, सव्वण्णुभिच्चभावा = सर्वज्ञनुं सेवम्य होवाने आगे, भावेणं जइणत्तं जंति भावथी नैनत्वने पामे छे. ||१४||
गाथार्थ :
ગલિત અસગ્રહદોષવાળા, અવેધસંવેધપદમાં રહેલા એવા તેઓ પણ=અનાભિગ્રહિક મિથ્યાદષ્ટિ वो पत्र, सर्वज्ञनुं सेवयुं होवाने झरो भावयी वैनत्वने पामे छे. ॥१४॥
टीडा :
गलिआसग्गहदोसत्ति । ते लब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवेद्यसंवेद्यपदगता अपि तत्त्व श्रवणपर्यन्तगुणलाभेऽपि कर्मवज्रविभेदलभ्यानन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्वं यान्ति । वेद्यसंवेद्याऽवेद्यसंवेद्यपदयोर्लक्षणमिदं -
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् ।
पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। इति । (योग. समु. ७३)
अस्यार्थः – वेद्यं वेदनीयं वस्तुस्थित्या, तथाभावयोगिसामान्येनाविकल्पज्ञानग्राह्यमित्यर्थः, संवेद्यते क्षयोपशमानुरूपं विज्ञायते यस्मिन् आशयस्थाने, अपायादिनिबन्धनं नरकस्वर्गादिकारणं स्त्र्यादि तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति, अन्यदवेद्यसंवेद्यपदम्, एतद्विपर्ययात् = उक्तलक्षणव्यत्ययात्, स्थूलबुद्धीनां भवति ।।
कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह - सर्वज्ञभृत्यभावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तद्वक्तृसर्वज्ञसेवकत्वाभ्युपगमात् । नन्वेवमुच्छिन्ना जैनाऽजैनव्यवस्था, बाह्यैरपिसर्वैर्नाममात्रेण सर्वज्ञाभ्युपगमात् तेषामपि जैनत्वप्रसङ्गाद्, इत्यतस्तेषां विशेषमाह – गलितासद्ग्रहदोष इति । येषां ह्यसद्ग्रहदोषात्स्वस्वाभ्युपगतार्थपुरस्कारस्तेषां रागद्वेषादिविशिष्टकल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थ्यावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांशे नाग्रहस्तेषां मुख्यसर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्वं स्यादेवेति भावः । मुख्यो हि सर्वज्ञस्तावदेक एव, निरतिशयगुणवत्त्वेन तत्प्रतिपत्तिश्च यावतां तावतां तद्भक्तत्वमविशिष्टमेव, सर्वविशेषाणां छद्मस्थेनाग्रहाद्, दूरासन्नादिभेदस्य च भृत्यत्वजात्यभेदकत्वादिति । तदुक्तं योगदृष्टिसमुच्चये ( श्लो० १०२-१०९) -