SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग-१ | गाथा-6 १०५ तल्लघुवृत्तावप्युक्तम् - आदौ सूक्ष्मनिगोदे जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं व्यवहारवनस्पतौ वासः ।। उत्सर्पिणीरसंख्याः प्रत्येकं भूजलाग्निपवनेषु । विकलेषु च संख्येयं कालं भूयो भ्रमणमेव ।। तिर्यक्पंचेन्द्रियतां कथमपि मानुष्यकं ततोऽपीह । क्षेत्रकुलारोग्यायुर्बुद्ध्यादि यथोत्तरं तु दुरवापम् ।। धर्मरत्नप्रकरणवृत्तावप्युक्तम् - इभ्यस्तन्नमनार्थं प्रययौ नत्वा गुरून् समयविधिना । निषसाद यथास्थानकमथसूरिर्देशना चक्रे ।। अव्यवहारिकराशौ भ्रमयित्वाऽनन्तपुद्गलविवर्तान् । व्यवहतिराशौ कथमपि जीवोऽयं विशति तत्रापि ।। बादरनिगोदपृथिवीजलदहनसमीरणेषु जलधीनाम् । सप्ततिकोटाकोट्यः कायस्थितिकाल उत्कृष्टः ।। सूक्ष्मेष्वमीषु पञ्चस्ववसर्पिण्यो ह्यसंख्यलोकसमाः । सामान्यबादरेऽङ्गुलगणनातीतांशमानास्ताः ।। इत्यादि । संस्कृतनवतत्त्वसूत्रेऽप्युक्तम् - निगोदा एव गदिता जिनैरव्यवहारिणः । सूक्ष्मास्तदितरे जीवास्तेऽन्येऽपि व्यवहारिणः ।। तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवासांव्यवरहारिकत्वं, अन्येषां च व्यावहारिकत्वमिति स्थिती परोक्ता युक्तिरेकावतिष्ठते, तत्र 'सिझंति जत्तिया किर' इत्यादिना व्यवहारराशितः सिद्धानामनन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगोदजीवानामव्यावहारिकत्वं च व्यवस्थापितम, तदसत्, ततः सिद्ध्यवच्छिन्नव्यवहारराश्यपेक्षया सिद्धानामनन्तगुणसिद्धावपि सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वं चानादिसूक्ष्मनिगोदानियतव्यवहारित्वाभिमुखजीवानां निर्गमानानुपनम् । आवलिकाऽसंख्येयभागपुद्गलपरावर्त्तमानत्वेन व्यावहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्यात्, तत्राभव्यस्य व्यावहारिकत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy