________________
धर्मपरीक्षा भाग-१ | गाथा-6
टी :
अत एव बादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा बादरनिगोदजीवेभ्यः सिद्धानामनन्तगुणत्वप्रसङ्गात् । यावन्तो हि सांव्यावहारिकराशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेर्विनिर्गत्य सांव्यावहारिकराशावागच्छन्ति । यत उक्तं (विशेषणवती-६०) - सिझंति जत्तिया किर इह संववहारजीवरासीओ । इंति अणाइवणस्सइमज्झाओ तत्तिया चेव ।। एवं च व्यवहारराशितः सिद्धा अनंतगुणा एवोक्ताः, तत्र यदि बादरनिगोदजीवानां व्यावहारिकत्वं भवति (?भवेत) तर्हि बादरनिगोदजीवेभ्यः सिद्धा अनंतगुणाः संपोरन, सन्ति च सिद्धेभ्यो बादरनिगोदजीवा अनंतगुणाः, तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः । यदागमः (पन्नवणा ३ पदे) - 'एएसिं णं भंते! जीवाणं सुहुमाणं बायराणं णोसुहुमाणं णोबायराणं कयरे कयरेहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा? गोयमा ! सव्वथोवा जीवा णोसुहुमा णोबायरा, बायरा अणंतगुणा सुहुमा असंखेज्जगुणा ।' इति । एतद्वृत्तिर्यथा – 'एएसिं णं भंते ! जीवाणं सुहुमाणमित्यादि । सर्वस्तोकाजीवा णोसुहुमा णोबायरा सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशेर्बादरजीवराशेश्चानन्ततमभागकल्पत्वात् । तेभ्यो बादरा अनंतगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽनंतगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद्' इति । तत एवमागमबाधापरिहारार्थं बादरनिगोदजीवा अव्यावहारिकाः स्वीकर्त्तव्याः । प्रयोगाश्चात्र (१) बादरनिगोदजीवा न व्यवहारिणः, तेषां सिद्धेभ्योऽनन्तगुणत्वात्, यथा सूक्ष्मनिगोदजीवाः; तथा (२) अनादिमन्तः सूक्ष्मा बादराश्च निगोदजीवा अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः । अपर्यवसितत्वं च 'सिझंति जत्तिया किर....' इत्यादिना सिद्धम् । तथा (३) सांव्यवहारिका जीवा सिध्यन्त्येव आवलिकाऽसंख्येयभागपुद्गलपरावर्त्तसमयपरिमाणत्वेन परिमितत्वाद् । व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया वाच्या इति ।
ननु 'सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा, सूक्ष्मा निगोदा एवान्त्याः, तेभ्योऽन्ये व्यवहारिणः' इति योगशास्त्रवृत्तिवचनाद् बादरनिगोदजीवानां व्यवहारित्वसिद्धेः कथमव्यवहारित्वमिति चेत् ? न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः' इति पाठस्यापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चेतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद्, सूक्ष्मपृथिव्यादिजीवानां चाव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागतानामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद, अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत्, यच्च केवलं निगोदेभ्य उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्त इत्यादि भणितं,