________________
Guोशमाला भाग-3 | गाथा-304-3८५ ગુણવત્તા બોલાવે છે, તેઓ કૂટ ચારિત્રવાળા જાણવા અને તેઓ જે કાંઈ પ્રવૃત્તિઓ કરે છે, તેનાથી પાર્થસ્થાદિ ભાવોની વૃદ્ધિ થાય છે. ll૩૮પા अवतरsि :
तथाविधस्य चाऽपायं दृष्टान्तेनाहअवतरधिार्थ :અને તેવા પ્રકારના સાધુતા અપાયને દષ્ટાંત દ્વારા કહે છે –
गाथा:
जोवि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं ।
तिग्गाममज्झवासी सो सोयइ, कवडखवगु ब्व ॥३८६।। गाथार्थ:
જે વળી માયામૃષાવાદો વડે મુગ્ધજનને પાડીને ઠગે છે, તે ત્રણ ગામ મધ્યવાસી કપટ ક્ષપકની भ शो 5 छ. 11305|| टी :
योऽपि च पातयित्वाऽऽत्मवश इत्यध्याहारः, अपि चेत्यस्मादखादकोऽपि पररञ्जनाप्रवणः, कथं मायामोसेहिं ति मायामृषावादैरलीकवचनचेष्टितैरित्यर्थः । खादति वञ्चयति मुग्धजनं ऋजुलोकं त्रयाणां ग्रामाणां समाहारस्त्रिग्राम, तस्य मध्ये वसितुं शीलं यस्यासौ त्रिग्राममध्यवासी, कोऽसौ ?, कपटक्षपको मायातपस्वी, स यथा शोचितवांस्तद्वत् स शोचतीति सम्बन्धः ।
कथानकं चात्रउज्जयन्याम् अघोरशिवनामा धूर्तब्राह्मणश्चर्मकारविषयं जगाम, मिलितस्तत्र धूर्ततस्कराणाम्, ऊचिरे ते तेनाहं मुनिवेषं करोमि, भवद्भिः श्लाघनीयः, येन सुखेनैव लोकान् मुष्णीम इति । प्रतिश्रुतं तैः । ततो ग्रामत्रयमध्यवर्तिनि कानने कृतपरिव्राजकवेषोऽसावासाञ्चक्रे । ते तु लोकसमक्षं तं मासक्षपकोऽयमिति शश्लाघिरे, पूजां च चक्रिरे, तस्मै ततो लोको निमन्त्र्य तं गृहेषु नीत्वा सम्भोज्य पर्यपूपुजत्, महाज्ञानी इति च मत्वा स्वगृहविभवमकथयत् । भाविलाभादिकं च पप्रच्छ । स तं विश्रम्भे पातयित्वा रात्रावितरैः सम्भूयामूमुषद् गृहाणि । अन्यदा तन्मध्याद् गृहीतः कश्चिदेकश्चौरः, तेन च ताड्यमानेन सर्वेऽप्याचचक्षिरे, विनाशितास्ते, परिव्राजकस्य तु ब्राह्मणत्वादुत्पाटिते लोचने, ततोऽसौ महावेदनातॊलोकैनिन्द्यमानः पश्चात्तापमाप हा ! किं मयेदृशमनुष्ठितं, तथाऽन्योऽपि परवञ्चकः शोचतीत्युपनयः ।।३८६।।