________________
पहेशभाला भाग-२ / गाथा - ३२७
अवतरशिST :
अन्यच्च
933
अवतर शिकार्थ :
અને ઈન્દ્રિયોના જય માટે સાધુએ બીજું શું કરવું જોઈએ ? તેને અનુરૂપ ઉપદેશ આપે છે
गाथा :
निहयाणिहयाणि य इंदियाणि घाएहऽणं पयत्तेणं । अहियत्थे निहयाई, हियकज्जे पूयणिज्जाई ।। ३२९।।
गाथार्थ :
નિહત-અનિહત એવી ઈન્દ્રિયોને અને ઋણને=કર્મને, હે મુનિ ! પ્રયત્નથી ઘાત કર, અહિત અર્થમાં નિહત કરવી જોઈએ, હિતકાર્યમાં પ્રગુણી કરવી જોઈએ, તેથી પૂજનીય થાય છે=ઈન્દ્રિયો पूरनीय थाय छे. ॥३२॥
asi :
निहतानीष्टानिष्टे स्वगोचरे रागद्वेषपरिहारेण तत्कार्याभावात् प्रलयं नीतानि अनिहतान्याकारदर्शनात् स्वविषयग्रहणाच्च । तदुक्तं
न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् ।
रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ।।१।।
ततश्च निहतानि च तान्यनिहतानि चेति 'क्तेन नञ्विशिष्टेन' इति वचनात् समासः । निहतानिहतानि च साधूनामिन्द्रियाणि भवन्ति, चशब्दः अणमित्यस्मात् परतः सम्बध्यते अणं च संस्कृते ऋणमुच्यते, तच्चेह कर्म तद्वशेन भवचारकेऽवस्थानात् ततश्च न केवलमिन्द्रियाणि किं तर्हि ? ऋणं च साधूनां निहतानिहतं वर्त्तते बहुतरं हतं स्तोकमहतमित्यर्थः यत एवमतो घातयत, हे मुनयः ! प्रयत्नेन कर्तृभूतेन स्वयं प्रयोजकाभूत्वा दग्धरज्जुकल्पाप्यक्षाणि कर्म च यत्नतो विनाशयतेत्यर्थः । यावच्चाद्यापि सर्वथा घातो न सम्पद्यते तावत् किं विधेयमित्याह - अहितार्थे स्वविषये रागद्वेषकरणलक्षणे प्रवर्त्तमानानि निहतानि कार्याणि ततो निरोद्धव्यानीति भावः, हितकार्ये भगवदागमश्रवणजिनबिम्बावलोकनादौ प्रगुणानि कार्याणीति शेषः, तथा च कृतानि पूजनीयानि जायन्त इति ।