________________
લપમાલા ભાગ ૨Tગાથા-૨૭
૧૨૮ Ele:
तपोऽनशनादि, कुलमुग्रादि, छाया लोकमध्ये उन्नतिस्तासां भ्रंशोऽधःपतनं विनाशस्तपःकुलच्छायाभ्रंशस्तमिन्द्रियवशगा अनुभवन्तीति क्रियापेक्षया प्रथमा द्वितीयार्थे सर्वत्र द्रष्टव्या प्राकृतत्वात् । तथा 'पंडिच्चप्फंसण' त्ति पाण्डित्यमालिन्यं तथा चोक्तम्
सकलकलाकलापकुशलोऽपि हि कविरपि पण्डितोऽपि हि प्रकटितसर्वशास्त्रतत्त्वोऽपि हि वेदविशारदोऽपि हि मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ।। तथाऽनिष्टः संसारस्तस्य पथो मार्गोऽनिष्टपथस्तं, तदुक्तम्
दिवसरजनिसारैः सारितं पक्षगेहं समयफलकमेतन्मण्डितं भूतधात्र्याम् । इह हि जयति कश्चिन्मोक्षमक्षैविधेयैरधि-गतमपि चान्ये विप्लुतैरियन्ति ।। तथा व्यसनानि नानाकाराविपत्तीर्यथोक्तम्सक्तः शब्दे हरिणः, स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे, भुजगो गन्धे ननु विनष्टः ।। पञ्चसु सक्ताः पञ्च विनष्टाः, यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ।। तथा रणमुखानि च सङ्ग्रामद्वाराणि विनाशनिमित्तानि, चशब्दात् समस्तदोषानिन्द्रियवशगा अनुभवन्त्युपभुञ्जते । तथाहिजयो यद् बाहुबलिनि, दशवको निपातनम् । जिताजितानि राजेन्द्र !, हृषीकाण्यत्र कारणम् ।।१।।
ननु चास्य प्रकरणस्य सिद्धान्तोद्धारभूतत्वात् तस्य च परमपुरुषप्रणीतत्वात् तद्वाक्यानां स्वतः प्रामाण्यात् तबलेनैवाशेषवचनानामपि प्रतिष्ठावाप्तेर्भास्करवत् स्वपरप्रकाशकत्वान युक्तस्तत्समर्थनार्थ सुभाषितान्तरोपन्यासः, सत्यमेतत्रैवात्र सन्देहः केवलं सर्वेषां मार्गानुसारिणां प्रायः समाना बुद्धिरितिप्रदर्शनार्थं यद्युच्येरन तत्र कश्चिद्दोषः, श्रीशीलसूरिप्रभृतीनामपि आचारविवरणादी बहुशस्तानि लिखितानि, अयं प्रायोऽभिप्रायो यदि वा मादृशः प्रबलमोहावृततया नाऽसौ शक्यो लक्षयितुमतिगम्भीरत्वादिति ।।३२७॥ टीकार्थ :
तपोऽनशनादि ..... गम्भीरत्वादिति ।। त५, अनशन 471, दुल GA 4३, प्रया=els मध्ये ઉન્નતિ, તેનો ભંશ=અધપતન=વિનાશ, ઇન્દ્રિયને વશ થયેલા જીવો તપના અને કુલના છાયાવાંશને