________________
Bघटेशभाला लाग-१ | गाथा-४४ गाथार्थ :
અહીં ધર્મના વિચારમાં, કુલ પ્રધાન નથી, હરિકેશબલને શું કુળ હતું? અર્થાત્ સારું કુળ ન 6j, तपथी मावलित वो पानी 6पासना 5रता ता. ||४|| टोड:
न कुलमुग्रादिकमत्र धर्मविचारे प्रधानं श्रेष्ठं, यतो हरिकेशबलस्य बलनाम्नो मातङ्गस्य किं कुलमासीज्जुगुप्सितत्वात्, न किञ्चिदित्यर्थः, यस्य किं सम्पन्नमित्याह-आकम्पिता आवर्जिता-हतहदयाः कृतास्तपसा विकृष्टेन सुरा अपि=देवा अपि, आसतां मनुजाः, यं पर्युपासते, तस्य किं कुलमासीदिति सामान्यार्थः, विशेषार्थः तदुदाहरणाद् ज्ञेयः ।।
तच्चेदं- पूर्वभवजातिमदकरणनिबद्धनीचैर्गोत्रकर्मविपाकाल्लब्धनिन्द्यजातिर्बलाभिधानो मातङ्गश्रमणको विशिष्टतपोऽनुष्ठाननिरतो वाराणस्यां तिन्दुकोद्याने गण्डीतिन्दुकयक्षायतने तस्थौ । स च यक्षस्तद्गुणाक्षिप्तचित्तो विमुक्ताशेषव्यापारस्तमुपास्ते स्म । अन्यदा तन्मित्रमयोद्यानात्समायातस्तं प्रत्याह-'वयस्य ! कथं न दृष्टोऽसि ?' स प्राह-अमुं-भगवन्तं महर्षि पर्युपासीनस्तिष्ठामि । इतर आह-ममापि कानने मुनयस्तिष्ठन्ति । ततो भक्तिकौतुकाभ्यां गतौ तद्वन्दनार्थम् । दृष्टाः ते कथञ्चिद्विकथाप्रवृत्ता मुनयः, ततस्तौ तेभ्यो विरक्तौ । गाढतरमनुरक्तावितरस्मिन् । धन्यस्त्वं योऽस्य चरणौ प्रतिदिनं पश्यसीति श्लाधितस्तिन्दुकयक्षस्तेन । ___ अथान्यदा राजदुहिता भद्राभिधाना गृहीतानिका गता तदायतनम्, प्रदक्षिणां कुर्वत्या दृष्टो मुनिरसंस्कृतगात्रो, जुगुप्सया निष्ठ्यूतमनया, जातो यक्षस्य कोपः, दर्शयाम्यस्या भगवत्परिभवफलमिति सञ्चिन्त्याधिष्ठितं तच्छरीरं, प्रलपन्ती नानाविधं परिजनेन नीता पितृसमीपम् । अपत्यस्नेहमोहितेन कारिता तेन चिकित्सा, न जातो विशेषः, विषण्णा वैद्याः, ततः प्रकटीभूय यक्षः प्राह-अनया पापया मम स्वामी मुनिरुपहसितोऽस्ति, यदि तस्यैव जाया जायते ततो मुञ्चामि, नान्यथेति । ततो जीवन्तीं द्रक्ष्यामीति सञ्चिन्त्य प्रहिता सा सपरिजना तत्सकाशं राज्ञा । गत्वा च पादपतिता सा प्राह-'महर्षे ! गृहाण करेण करं करेण, स्वयंवराऽहं भवतः ।' मुनिराह-'भद्रे ! निवृत्तविषयसङ्गा मुनयो भवन्ति, अलमनया कथयेति ।' ततः केलिप्रियतया प्रविश्य यक्षेण मुनिशरीरं परिणीता कृतविडम्बना मुक्ता च, स्वप्नमिव दृष्ट्वा विच्छायवदना गता पितृसकाशम् । ततो तदुद्देशेन पृष्टो रुद्रदेवनामा पुरोहितः प्राह-ऋषिभिस्त्यक्ता पत्नी ब्राह्मणेभ्यो दीयत इति वेदार्थः । राज्ञापीदमेव प्राप्तकालमिति सञ्चिन्त्य दत्ता तस्मै सा, कृता तेन यज्ञं यजता यज्ञपत्नी । मुनिरपि मासपारणके प्रविष्टो भिक्षार्थं यज्ञपाटके, अदत्तं द्विजेभ्यो न दीयते तुभ्यं शूद्राधमायेत्युपहसितश्चट्टैः ।