________________
७४
પદેશમાલા ભાગ-૧ | ગાથા-૪૨
આના દ્વારા=ગાથા-૪૦ના કથન દ્વારા, આપત્તિમાં પણ અટવી આદિ ભયોમાં પણ, દઢધર્મતા કહેવાઈ=સાધુને શમભાવતો દઢ રાગ છે એ પ્રમાણે કહેવાયું અને તેeતેવી દઢધર્મતા, જે ભગવાન વડે સેવાઈ તેના દ્વારા કહે છેઃસાધુની દઢધર્મતાને કહે છે – गाथा :
जंतेहिं पीलिया वि हु, खंदगसीसा न चेव परिकुविया ।
विइयपरमत्थसारा, खमंति जे पंडिया हुंति ।।४२।। गाथार्थ :
યંત્ર વડે પિલાયેલા પણ સ્કંદકના શિષ્યો પરિકુપિત થયા નહિ જ, વિદિત પરમાર્થ સારવાળા જે પંડિતો હોય છે તે સહન કરે છે. II૪રશા टीका:
यन्त्रैः पीडिता अपि हुः पूरणार्थे, स्कन्दकशिष्याः स्कन्दकाभिधानाचार्यविनेयाः न चेवेति नैव, परिकुपिताः क्रोधं गताः, चशब्दादाविर्भूतकरुणाश्च जाता उपसर्गकारिणीति गम्यते । एवमन्येऽपि विदितपरमार्थसारा-ज्ञाततत्त्वगर्भा ये पण्डिता भवन्ति, ते क्षमन्ते-सहन्ते, प्राणात्ययेऽपि न मार्गाच्चलन्तीति समासार्थः, व्यासार्थः कथानकगम्यः । तच्चेदम्
श्रावस्त्यां जितशत्रुतनयस्य स्कन्दकस्य भगिनी पुरन्दरयशाः कुम्भकारकटनगरनिवासिना दण्डकिराजेन परिणीता । अन्यदा कस्मिंश्चित्कार्ये प्रहितो दण्डकिना पालको नाम दूतो जितशत्रुसकाशम् । स च धर्मविचारे नास्तिकमतं प्रतिष्ठापयनर्हदागमाऽवदातबुद्धिना निर्जितः स्कन्दककुमारेण जातक्रोधो गतः स्वस्थानम् । स्कन्दकोऽपि जातवैराग्यो मुनिसुव्रतसमीपे पञ्चशतपुरुषपरिवृत्तो निष्क्रान्तः । भगवतापि गृहीतसमयसारः कृतस्तेषां स एवाचार्यः । अन्यदा तेन पृष्टो भगवान् मुनिसुव्रतस्वामी 'भगिन्यादिप्रतिबोधनार्थं यामि कुम्भकारकटकमिति ।' भगवानाह 'प्राणान्तिको भवतां तत्रोपसर्गः,' स प्राह-आराधका न वेति ? भगवतोक्तं-भवन्तं मुक्त्वा । ततो यद्येते मत्साहाय्येनाराधयिष्यन्ति किं मया न लब्धमित्यभिधाय गतः । तदागमनमाकर्ण्य पालकेन साधुजनोचितेषूद्यानेषु निधापितानि नानाविधानि शस्त्राणि । प्राप्ते च भगवति निर्गतः सह नागरलोकेन वन्दनार्थं राजा । भगवतापि कृता देशना, आह्लादिता जन्तवः । ततः पालको रहसितं राजानं व्यजिज्ञपदस्माभिर्भवद्भ्यो हितं भाषितव्यम् । अयं पाखण्डिकः स्वाचारभग्नः सहस्रयोधिनो अमून् पुरुषान् सहायीकृत्य भवद्राज्यं जिघृक्षति । राजाह-'कथं जानीषे' ?, स प्राह-कियदेतद्