SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पहेशभाला भाग - १ / गाथा - २५ गाथा : धम्मो मएण हुंतो, तो नवि सीउण्हवायविज्झडिओ । संवच्छरमणसिओ, बाहुबली तह किलिस्संतो ।। २५ ।। 39 गाथार्थ : જો ધર્મ મદથી થતો હોત તો શીત-ઉષ્ણ-વાયુથી વિઝટિત=પીડા પામેલા સંવત્સર સુધી ભોજન વગરના બાહુબલી તે પ્રકારે ક્લેશ ન જ પામત. I॥૨૫॥ टीडा : धर्मो मदेनाभविष्यत्, यदीति गम्यते, ततो नापि नैव सम्भाव्यत एतत्, यदुत शीतोष्णवातैर्विझटितो व्याहतो मिश्रितो वा अतिव्याप्तत्वात्, शीतोष्णवातविझटितः संवत्सरं यावदनशितो निर्भोजनो बाहुबली तथा अक्लिशिष्यत् विबाधामन्वभविष्यदिति सङ्क्षेपार्थः । विस्तरार्थः कथानकगम्यस्तच्चेदम् - भरते चक्रवर्तिनि निजाज्ञाग्राहणोद्यते तत्कनिष्ठभ्रातरो विहाय राज्यानि ऋषभदेवान्तिके प्राव्राजिषुः । समुत्पन्नानि च सर्वेषां केवलज्ञानानि । बाहुबली पुनस्तद्भ्रातैव कथमहमेतद्भयादाज्ञां प्रव्रज्यां वा करिष्यामीत्यमर्षादभ्युत्थितः, संलग्नं द्वयोरपि युद्धं, दृष्टिवाग्बाहुमुष्टिदण्डप्रहारयुद्धेषु निर्जितो भरतः, चिन्तितमनेन किमयं चक्रवर्तीति ? अत्रान्तरेऽर्पितं देवतया चक्रम् । गृहीतचक्रो दृष्टो बाहुबलिना चिन्तितमनेन चूर्णयामि सचक्रमेनम् अथवा किमस्य गतमर्यादाजीवितस्य मारणेन ! अहो दुरन्ता विषयाः । यदासक्ता न कुर्वन्ति योग्यायोग्यविचारम् । यदुक्तम्— न मातरं न पितरं न स्वसारं न सोदरं । गुणैः सम्पश्यति तथा, विषयान् विषयी यथा ।।१।। 1 इति सञ्जातवैराग्येण तेन निःसृष्टो भुवि दण्डः, कृतः पञ्चमुष्टिको लोचः, अर्पितं देवतया रजोहरणादि, प्रपन्नः प्रव्रज्यां, इति तदवलोक्य लज्जितः स्वकर्मणा भरतः प्रसाद्यानेकविधं वन्दित्वा गतः स्वस्थानम् । बाहुबली पुनः कथमहं छद्यस्थतया केवलिनो लघुभ्रातॄन् वन्दिष्ये ? इत्यभिप्रायात्स्थितस्तत्रैव कायोत्सर्गेण तिष्ठतो गतं वर्ष, शीतवातातपैर्दवदग्धस्थाणुकल्पं कृतं शरीरकं, प्रसरिताः समन्ततो वल्लर्यः, प्ररूढा दर्भशूच्यः, समुद्गताश्चरणयोर्वाल्मीकाः, प्रसूताः कूर्चादौ शकुनय इति । भगवता तद्भगिन्यौ ब्राह्मीसुन्दर्यो 'भ्रातर ! अवतर हस्तिन' इति वक्तव्यं गत्वा युवाभ्यामित्युपदिश्य तत्पार्श्व प्रहिते । गत्वाभिहितं तत्ताभ्यां चिन्तितमनेन कुतो मुक्तसङ्गस्य हस्ती ! आ ! ज्ञातं ! मान इति । धिग् मा दुष्टचित्तकं ! वन्द्यास्ते भगवन्तो, व्रजामि वन्दितुं,
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy