________________
Bहेशमाला भाग-१ / गाथा-१५४
૨૬૫
टोs:
सम्यग्दृष्टिरपि तत्त्वार्थश्रद्धानयुक्तोऽपि, तथा कृतो विहितः सामर्थ्यादात्मन्यागमः श्रुतं येन स कृतागमः, असावपि, किं पुनरन्य इत्यपिशब्दार्थः, किम् ? अतीवविषयेषु शब्दादिषु रागश्चेतसोऽभिष्व
ङ्गस्तस्मात् सुखं, दुःखेऽपि विपर्यासात् सुखबुद्धस्तद्वशकस्तदायत्त इति समासः । स किं भवसङ्कटे क्लिष्टसंसारे प्रविशति याति, शिष्यं प्रत्याह-अत्रार्थे तवेति विनेयपरामर्शः सत्यकीज्ञातमुदाहरणमिति गाथासमासार्थः ।
कथानकमत्राधुनापेढालाभिधानेन विद्याधरेण स्वविद्यानिक्षेपपात्रधिया ब्रह्मचारिण्युदरजे महाबले निक्षिपामीत्याकूतेन ज्येष्ठानामार्यायामुदपादि सुतत्वेन सत्यकी, वर्धितः साध्वीमध्ये, गृहीतमुपश्रुत्या बहुश्रुतम् । अन्यदा कालसन्दीपकविद्याधरेण पृष्टो भगवान् वीरः 'कुतो मे भयमिति ।' भगवतोक्तमितः सत्यकितः, ततो 'रे मां मारयिष्यसि त्वमित्यादि हीलितः पातितः स्वचरणयोर्बलामोटिकया तेन च सत्यकेस्तस्योपर्यमों, बभूव ! ततो दत्ताः पित्रा तस्य विद्याः, साधयितुमारेभे रोहिणीं । कुर्वंश्चोपसर्गान्वारितः कालसन्दीपकः सिद्धाऽहमस्येति वदन्त्या तया, स च किल सत्यकी तया भवपञ्चकं साधयन् हतः, षष्ठभवे षण्मासशेषायुषा सिद्ध्यन्ती निषिद्धा, भवान्तरे सेत्स्यति इति वदतो ततो गाढमनुरक्ता सती सा अब्रवीत् त्यजैकमङ्गं तावके देहे प्रविशामीति । दर्शितमनेन ललाटं, विदार्य प्रविश्य तया कृतं तुष्टया तत्र लोचनम् । स चाचिन्तयन्मदीयजननी व्रतिनी सती धर्षिता पापेनानेनेति व्यापादितः पेढालः, दृष्टो नश्यन् कालसन्दीपकोऽनेन, लग्नस्तत्पृष्टे, तेनाकारि नभसि मायामयं तद्व्यंसनाय त्रिपुरं, बहु युद्ध्वा तद् दग्ध्वा घातितोऽसौ प्रविशन् लवणे महापाताले ।
अन्ये तु ब्रुवते भगवच्चरणमूले तेन साधु कोपोपशमः सञ्जात इति । ततो जातबलोत्कर्षोयमऽप्रतिमल्लतया यथादर्श राजादियोषितः प्रद्वेषाद् धिग्वर्णकन्यका ऋषिपत्नीश्च भुजानस्त्रिसन्ध्यं च भगवतामायतनेषु वन्दनपूजनगीतनृत्यादि विदधानो यथेष्टं भुवि सञ्चचार । __ अन्यदोज्जयिन्यां चण्डप्रद्योतः 'कः खल्वेनं पापं घातयिष्यतीति' महतोऽमर्षात्सदसि न्यगादीत् । तं गणिकोमा प्राह-भवदादेशादहमिति । सोऽवोचदेवं कुरु । दृष्ट्वा अन्यदा निर्वृहकगता विकसितमुकुलितकमलद्वयहस्ता विमानारूढं नभसोऽवतरन्तं विकसितकुशेशयकरं प्रसारयन्तं मुकुलितमुपनीयाग्रे सा तमवादीत्-योग्यस्त्वमीदृशां न पुनर्विकशितानां यस्त्वं मुग्धबुद्धीः प्रार्थयसे न पुनर्मादृशीः प्रौढयोषितः इति तद्वचनकौशलाकृष्टचेताः स्निग्धदृष्टियष्टिनिहतश्च नित्यमेति तद्गृहे । तत्सौन्दर्यावर्जितहृदयस्य जातस्तस्य तस्यामनुरागोत्कर्षः, निवृत्तश्चान्यनारीतर्षः सञ्जातात्यन्त