________________
पहेशभाला भाग - १ / गाथा - १४७
गाथार्थ :
જે પ્રમાણે શાશ્વત સુખનો તરસ્યો પ્રિય પુત્રવાળો તે શ્રેણિક રાજા પોતાના અંગથી ઉત્પન્ન થયેલ કોણિક રાજા વડે ક્ષયને પ્રાપ્ત કરાયો=મૃત્યુને પ્રાપ્ત કરાયો. ।।૧૪૯।।
२३७
टीका :
तरो वेगस्तद्विद्यते यस्यासौ तरस्वी, शाश्वतसौख्ये मोक्षसुखे तरस्वी क्षायिकदर्शनत्वात् शाश्वतसौख्यतरस्वी, स किं ? निजकाङ्गसमुद्भवेन पुत्रेणेत्यर्थः, प्रियः पुत्रो यस्येति प्रियपुत्रः सन् यथासौ श्रेणिकराजः कोणिकराजेन क्षयं नीतः, तथान्योऽपि नीयत इत्यक्षरार्थः भावार्थ: कथानकादवसेयस्तच्चेदं
I
राजगृहे श्रेणिकराजपत्न्याश्चेल्लणाया गर्भदोषाद्भर्तुरन्त्रभक्षणे दोहदमभूत्, पूरितं तदन्धकारे कृत्रिमान्त्रैर्मन्त्रिणा । जातश्चोज्झितो दुष्टोऽयमिति दारकस्तया गृहोपवने, दृष्टः श्रेणिकेन समर्पितो धात्र्याः कृतमशोकचन्द्र इति नाम । तस्य चोज्झितस्य कुक्कुटेनाङ्गुली मनाग् भक्षिताऽऽसीत् । तत्पीडया रुदतोऽतिस्नेहेन तस्य क्लेददिग्धां तां पिता चूषितवान् । प्रगुणीभूता च सा कोना जाता, तद्द्वारेणासौ कोनिक इत्याकारितः । पश्चात्कोनिकाय राज्यं दित्सुना राज्ञा हल्लविहल्लाभ्यामष्टादशवक्त्रो हारः कुण्डलयुग्मं हस्तिरत्नं च दत्तम् । अज्ञाततदभिप्रायस्योत्पन्नः कोनिकस्य मत्सरः, ततोऽसौ सामन्तान् सहायीकृत्य श्रेणिकं स्वपितरं बद्ध्वा चारकेऽक्षिपत् । कशानां शतेन कदर्थयति च प्रतिदिनं क्रोधावेशात् । अन्यदा भुञ्जानस्योत्सङ्गोपविष्टेन तस्य सुन भाजने मूत्रितं, मनागपसार्य भुक्तं तत्तेन, चेल्लणां च प्रत्युक्तं - अम्ब ! दृष्टो ममापत्यस्नेहः ! सा गद्गद्वागाह - यत्तवोपर्यपि त्वत्पितुर्गुरुतरः स्नेहोऽभूत्तत्फलमधुनानुभवति स इदानीम् । प्राहकथं ? तयापि कथितो वृत्तान्तः । ततो जातपश्चात्तापः स्वयमेव गृहीत्वा निगडखण्डनार्थं परशुं गतः कारागृहम् । आगच्छन् स दृष्टो गुप्तिपालैः कथितश्च तैः श्रेणिकाय । तेनापि दुःखमारेण मामयं मारयिष्यतीति सञ्चिन्त्य भक्षितं तालपुटं विषं, प्राग्बद्धायुष्कत्वान्मृत्वा गतः स प्रथमपृथिवीम्, इतरोऽपि कालेन षष्ठीमिति । । १४९।।
टीडार्थ :
तरो षष्ठीमिति ।। त२=वेग, ते विद्यमान छे भेने ते तरस्वी शाश्वत सोध्यमां=मोक्षसुषमां, તરસ્વી; કેમ કે ક્ષાયિક દર્શનપણું છે, તે શું ? એથી કહે છે પોતાના અંગથી ઉત્પન્ન થયેલા પુત્ર વડે પ્રિય પુત્ર છતો એવો આ શ્રેણિક રાજા જે પ્રમાણે=કોણિક રાજા વડે, ક્ષય પ્રતિ લઈ જવાયો, તે પ્રમાણે અન્ય પણ લઈ જવાય છે, એ પ્રમાણે અક્ષરાર્થ છે.
-