________________
परेशमाला लाग-१ | गाथा-५७-५८
१०३
गाथा:
पणमंति य पुव्वयरं, कुलया न नमंति अकुलया पुरिसा । पण पुब्बिं इह जइजणस्स जह चक्कवट्टिमुणी ।।५७।। जह चक्कवट्टिसाहू, सामाइयसाहुणा निरुवयारं ।
भणिओ न चेव कुविओ, पणओ बहुयत्तणगुणेण ।।५८।। गाथार्थ:
અને કુળમાં ઉત્પન્ન થયેલા=વિશિષ્ટ કુળમાં ઉત્પન્ન થયેલા પૂર્વતરને નમે છે અને અકુલજા પુરુષો નમતા નથી, જે પ્રમાણે ચક્રવર્તી મુનિ=ગાથાના પૂર્વાર્ધમાં કહ્યું, એ પ્રમાણે પ્રેરણા કરાયેલ ચક્રવત મુનિ, અહીં=પ્રવચનમાં, દીક્ષા ગ્રહણ કરતા પૂર્વે નમેલ તે પ્રમાણે તે લઘુ સાધુની પ્રેરણાથી નમે છે, એમ અન્વય છે.
જે પ્રમાણે ચક્રવર્તી સાધુ સામાન્ય સાધુથી નિરુપચાર કહેવાયેલા કુપિત થયા નહિ, પરંતુ બહુતર ગુણને કારણે નમ્યા, તેમ બીજા સાધુઓએ કરવું જોઈએ એમ અન્વય છે. પ૭-૫૮ll Els:__ अनयोर्गाथयोः साम्प्रदायिकोऽर्थः, स चायं-कश्चिच्चक्रवर्ती प्रव्रजितः स चागीतार्थतया कुलादिभिरधिकोऽहमित्यभिप्रायेण न साधून वन्दते । ततस्तदभिप्रायं ज्ञात्वाऽन्येन तहिनदीक्षितसाधुनासावऽभिहितो विरूपकस्तेऽभिप्रायः, यतः प्रणमन्ति प्रकर्षेण प्रह्वा भवन्ति चशब्दस्योपनयोपदर्शनार्थस्य द्वितीयगाथायां यथाशब्दात् परेण सम्बन्धः, पूर्वतरं प्रथमतरं, के ? कुलजा विशिष्टकुलोत्पन्नाः, न नमन्ति अकुलजा निन्द्यजातयः पुरुषाः, दुर्विनीततायास्तेष्वेवावस्थानात् । एवं सति यथा चक्रवर्तिमुनिस्त्वं वर्तसे, तथा सुतरां प्रणतिपरेण भवितुं युक्तम्, इत्युक्तोऽसौ जातसंवेगः सती चोदनेत्यभिप्रायाद्यतिजनमद्यदीक्षितादिभेदभिन्नं साधुलोकं, द्वितीयार्थे षष्ठी प्राकृतत्वात्, एवमन्यत्रापि विभक्तिव्यत्ययोऽदुष्टो दृष्टव्यः, पूर्वं प्रथमतरमेव वन्दितस्तेन तं प्रणतः, इह प्रवचने, द्वितीयगाथाया अस्यैवोपनयः-यथा चायं चक्रवर्तिसाधुः सामायिकसाधुना लघुनापि भणितश्चोदितो नैव कुपितः, चशब्दादनुग्रहं च मनितवान् । कथं भणितः ? निरुपचारमुपचारहितं स्फुटवचनेन निष्ठुरमित्यर्थः न केवलं न कुपितः, किं तर्हि ? प्रणतो बहुत्वगुणेन हेतुभूतेन प्रणतेः क्षान्तेर्वेति गम्यते । तथा हि कर्मक्षयहेतुतामधिकृत्य बह्वी क्षान्तिः प्रणतिर्वा, तुच्छास्तु कुलाभिमानादयः अतस्तस्या बहुत्वगुणः, तेन प्रणतः तथान्यैरपि कर्तव्यमित्युपनयः ।।५७-५८।।