SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पहेशभाला भाग-१ / गाथा- ४८ गाथा : कोडीसएहिं धणसंचयस्स गुणसुभरियाए कन्नाए । न वि लुद्धो वयररिसी, अलोभया एस साहूणं ।।४८ ।। ८५ गाथार्थ : ધનસંચયના સેંકડો કરોડ વડે ગુણયુક્ત કન્યામાં પણ વજઋષિ લોભાયા નહિ, આ સાધુની खलोलता छे. ॥४८॥ टीडा : कोटीशतै: सह या कन्या तस्यामपि न लुब्ध इति सम्बन्धः । कस्य कोटीशतैः ?, धनसञ्चयस्य द्रव्यसङ्घातस्य सम्बन्धिनां रत्नादीनामिति गम्यते । गुणैः रूपादिभिः सुभृता सुष्ठु परिपूर्णेति समासः । कासौ ? कन्या तस्यामपि न लुब्ध इति सम्बन्धः अपरिणीत - बाला, तस्यामपि न लुब्धो न लोभं गतः । अपिशब्दस्य व्यवहितः प्रयोगः, कोऽसौ ? वैरर्षिः । शिष्यं प्रत्याहअलोभतैषाऽनन्तरोक्ता साधूनां सर्वयतिभिरेवं निर्लोभैर्भाव्यमिति सङ्क्षेपार्थः, प्रपञ्चार्थः कथानकाद् ज्ञेयः । तच्चेदं-पाटलिपुत्रे विद्याद्यतिशययुतो युगप्रधानो भगवानाचार्यो वैरर्षिः समवसृतः तद्वन्दनार्थं निर्गतः सनागरको राजा । भगवताऽपि विद्याबलतो विहितविशोभरूपेण प्रारब्धा धर्मदेशना । ततस्तदाक्षिप्तचित्ता लोकाः परस्परमूचुर्बत भगवतो न गुणानुरूपं रूपम् । उपसंहृता देशना, गतं तद्दिनम् । इतश्च तत्रैव नगरे धनसार्थवाहशालायां पूर्वस्थिता आर्यिका भगवद्गुणवर्णनं कृतवत्यः, तदाकर्ण्य धनदुहिता अतिमुग्धतया भगवति जाताऽनुरागा पितरं प्रत्याह-यदि मां वैरस्वामिनं विहायाऽन्यः परिणेष्यति ततस्त्यक्ष्यामि प्राणान् । ततोऽपत्यस्नेहवशाद्विज्ञाय तन्निर्बन्धं द्वितीये दिने गृहीत्वा अनेकरत्नकोटीशतैः सहितां कृताऽलङ्कारामुपहसितत्रिदशवधूलावण्यां कन्यां गतो भगवत्समीपं सार्थवाहः । दृष्टो भगवान् वैरूप्यदर्शनजातवैमुख्यजनाह्लादातिरेकसम्पत्तये मार्गावतारणार्थं विद्यातिशयात्रिर्वर्तितत्रिभुवनातिशायिरूपः कनककमलोपविष्टो धर्ममाचक्षाणस्तेन । ततः सविनयं प्रणम्य विरचितकरकुड्मलोऽसावाह - ' भगवन् ! अस्या मम जीविताभ्यधिकायाः कन्यकाया रत्नराशिभिः सहिताया ग्रहणेन कुरु मेऽनुग्रहमिति ।' भगवानाह - 'भद्र ! न खल्विदमतिमुग्धबुद्धेरपि मनसि सन्तिष्ठते, यदुत सिद्धिवधूसम्बन्धबद्धाध्यवसाया अनिधनसुखाभिलाषिणः साधवोऽशुचिमूत्रान्त्रक्लेदपूर्णासु युवतिषु क्षणविनश्वरे च धने ग्रहणबुद्धिं विधास्यन्ति । ततोऽलमनया I
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy