________________
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૨૪
गाथा :
गुरुपारतंतनाणं, सद्दहणं एयसंगयं चेव । इत्तो उ चरित्तीणं, मासतुसाईण णिद्दिष्टुं ॥२४॥ गुरुपारतन्त्र्यज्ञानं श्रद्धानमेतत्सङ्गतमेव । इतस्तु चारित्रिणां माषतुषादीनां निदिष्टम् ॥२४॥
गाथार्थ:
આથી જ જ્ઞાન અને શ્રદ્ધાન વગર ચારિત્ર નથી આથી જ, ચારિત્રી એવા માષતુષઆદિ મુનિઓને ગુરુપારખંભ્યરૂપ જ્ઞાન અને ગુરુ પારર્તવ્યરૂપ જ્ઞાનથી સંગત જ શ્રદ્ધાના નિર્દિષ્ટ છે. li૨૪
* 'इत्तो उ' भi 'उ' शब्द एव १२ अर्थमा छ. डा: ____ यत एताभ्यां विना चरणं न श्रद्धेयं ततो विशिष्टश्रुतवर्जितानामपि चरणवतां कथंचिज्ज्ञानाद्यस्तीति दर्शयन्नायह-'गुरुपारे' त्यादि, गुरुपारतन्त्र्यं ज्ञानाधिकाचार्यायत्तत्वं यत्तज्ज्ञानं-बोधो, विशिष्टज्ञानविकलानामपि गुरुपारतंत्र्यस्य ज्ञानफलसाधकत्वात्, यदाह____"यो निरनुबन्धदोषात् श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ॥१॥ चक्षुष्मानेकः स्यादन्थोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥२॥" तथा श्रद्धानं च सम्यग्दर्शनं च एतत्संगतं-गरुपारतन्त्र्यरूपज्ञानोचितं निर्दिष्टमिति संबन्धः, ज्ञानानुरूपत्वाच्छद्धानस्य, चैवशब्दः समुच्चयार्थों योजितश्च, 'एत्तो उत्ति यतो ज्ञानदर्शनाभ्यां विना सामायिकं न केषाञ्चिद्भवत्यत एव चारित्रिणां चारित्रवतां माषतुषादीनां आगमप्रसिद्धातिजडसाधूनां निर्दिष्टं-उक्तं सर्वज्ञैरिति, अथवा ननु विशिष्टश्रुतविकलत्वेन ज्ञानादिना विनापि केषाञ्चित्साधूनां चरणं श्रूयतेऽतः कथमुक्तमेताभ्यां विना चरणं न श्रद्धेयमित्याशंक्याह-गुरु०' गाहा, 'गुरुपारतन्त्र्यमेव ज्ञानं विशिष्टश्रुतवर्जितानां श्रद्धानं चैतत्संगतमेवेति, ततः किमित्याह-'एत्तो उत्ति यतो विशिष्टश्रुतवर्जितानामुक्तरूपे ज्ञानश्रद्धाने अत एव चारित्रिणां माषतुषादिसाधूनां निर्दिष्टं ज्ञानं दर्शनं चेति शेषः, अथवा इत एव तेषां चरणं निर्दिष्टं, न स्वतन्त्रमेवेत्यतो न ताभ्यां विना चरणमिति । कथानक-संप्रदायश्चैवम्-बभूव कश्चिदाचार्यों, गुणरत्नमहानिधिः । श्रुतमध्वर्थिशिष्यालिसेव्यमानक्रमाम्बुजः ॥१॥ सूत्रार्थपाथसां दाने, महाम्भोद इवाश्रमः । संघादिकार्यभाराणां, निस्तारे धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद् भ्राता, विशिष्टश्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्ता स्वार्थपरायणः ॥३॥ तत्र सूरिः क्वचित्कार्ये, श्रान्तः सन् मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद, व्याख्यायामक्षमत्वतः । चित्तखेदं जगामाथ, चिन्तयामास चेद्दशम् ॥५॥ धन्योऽयं पुण्यवानेष, मझाता निर्गुणो यतः । सुखमास्ते सुखं शेते, पारतन्त्र्यविवर्जितः ॥६॥ वयं पुनरधन्या ये, स्वगुणैरेव वश्यताम् । परेषां प्रापिताः स्थातुं, सुखेन
। चिन्तयता तेन, निबद्धं कर्म सरिणा । ज्ञानावरणमत्युग्रं, ज्ञानावज्ञानिमित्ततः ॥८॥ नालोचितं च तत्तेन, ततो मृत्वा दिवं गतः । ततोऽप्यसौ च्युतः क्वापि, सत्कुले जन्म लब्धवान् ॥९॥ कालेन साधुसम्पर्काद्, बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ, प्रववाज विरागतः ॥१०॥ ततोडसौ सूरिपादान्तेऽधीते सामायिकं श्रुतम् । उदीर्णं च तकत्तस्य, कर्म जन्मान्तरार्जितम् ॥११॥ तस्योदयान शक्नोति, ग्रहीतुं पदमप्यसौ । प्रयच्छन्नप्यविश्राम, बहुमानयुतोऽपि सन् ॥१२॥ ततः सूरि शक्तं तं, पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थं, ते संक्षेपादपीपठत् ॥१३॥ यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि, विस्मृतिस्तस्य जायते ॥१४॥ ततो महाप्रयलेन, संस्मृत्य किल किंचन । तत्रासौ घोषयामास, तुष्टो माषतुषेत्यलम् ॥१५॥ ततस्तद्घोषणान्नित्यं, माषतुषेत्यभिख्यया । ख्याति नीतो महात्माऽसौ, बालिशैः क्रीडनापरैः ॥१६॥ अदोऽपि विस्मरत्येष, यदा मोहात्तदा तकम् । न्यस्तचित्तमवाचं च, हसन्तो