________________
યતિલક્ષણસમુચ્ચય પ્રણ / ગાથા : ૧૭૮
टीडा :
अथ- 'गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्येष्ट' इति यदुक्तं तत्र विशेषाभिधानायाह- 'गुरु' इत्यादि, गुरुगुणरहितोऽपि, अपिशब्दोऽत्र पुनः शब्दार्थः, ततश्च 'गुरुगुणरहितो गुरुर्गुरुर्नभवति' 'इत्यत्र गुरुगुणरहितः पुनः इह गुरुकुलवासप्रक्रमे स एव द्रष्टव्यो- ज्ञातव्यः मूलगुणवियुक्तोमहाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितो वा यः, न तु न पुनः गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकलः, (मूलगुणव्यतिरिक्तचंडप्रकृत्यादिविशिष्टउपशमादिगुणविकलः " ) इति हेतो: गुरुगु( र्मूलगु) णरहितो द्रष्टव्य इति प्रक्रमः, उपप्रदर्शनार्थो वा इति शब्दः, उक्तं चेहार्थे- "कालपरिहाणिदोसा एत्तो इक्काइगुणविहीणेणं । अण्णेणवि पव्वज्जा दायव्वा सीलवंतेण ॥१॥" अत्रार्थे किं ज्ञापकमित्याह- चंडरुद्रः चंडरुद्राभिधानाचार्यः उदाहरणं ज्ञापकं, तत्प्रयोगश्चैवम्-गुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात्, चण्डरुद्राचार्यवत्, तथाहि असौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवं दृश्यते- चंडरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ॥१॥ असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय गच्छपार्श्वे स्म तिष्ठति ॥२॥ विहरंश्च समायात, उज्जयिन्यां कदाऽप्यसौ । विविक्तोद्यानदेशे च तस्थौ गच्छस्य सन्निधौ ॥३॥ अथ श्रीमत्सुतः कोऽपि, सुरूपो गर्वयौवनः । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ॥४॥ विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ॥५॥ अस्मत्सखममुं यूयं, हे भदन्त ! विरागिणम् । निर्विण्णं भवकान्तारात्, प्रव्राजयत सत्वरम् ॥६॥ साधवस्तु तकान् ज्ञात्वा, चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ॥७॥ भो भगा ! गुरवोऽस्माकं कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात, गुरूणामन्तिक लघु ॥८ ॥ केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि, भस्मानयत सत्वरम् ॥९ ॥ येनास्य लुञ्चनं कुर्मो, वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः, पञ्चमङ्गलपूर्वकम् ॥१०॥ लुञ्चनं कर्तुमारेभे तद्वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहम् ? ॥ ११ ॥ स्वयमाश्रितसाधुत्वः, संलुञ्चितशिरोमुखः । ततो विसृज्य मित्राणि, गुरुमेवमुवाच सः ॥ १२ ॥ भदन्त ! परिहासोऽपि, सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य, सौराज्यं मे समागतम् ॥१३॥ ततः स्वजनराजाद्या, यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो, नो चेद्वाधा भविष्यति ॥ १४ ॥ गुरुर्बभाषे यद्येवं, ततो मार्गं निरूपय । तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ ॥ १५ ॥ आचार्यः पृष्ठतो याति, पुरतो याति शिष्यकः । रात्रौ वृद्धत्वतोऽपश्यन्, मार्गे प्रस्खलितो गुरुः ॥ १६ ॥ रे दुष्टशैक्ष ! कीदृक्षो मार्गः संवीक्षितस्त्वया ? । इति ब्रुवाणो दण्डेन, शीर्षे तं हतवान् क्रुधा ॥१७॥ एवं स चण्डरोषत्वाच्चलितः स्खलितः पथि । शिरस्यास्फोटयन् याति तं शिष्यं क्षमिणां वरम् ॥ १८ ॥ शिष्यस्तु भावयामास, मन्दभाग्योऽस्म्यहं यतः । महाभागो महात्माऽयं महाकष्टे नियोजितः ॥ १९ ॥ भगवानेष सौख्येन, स्वगच्छे निवसन् मया । अहो दशां महाकष्टां, प्रापितः पापिना मुधा ॥२०॥ एवं भावयतस्तस्य, प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन, केवलज्ञानमुद्गतम् ॥२१॥ ततस्तं तद्बलेनासौ, सम्यग्नेतुं
I
૨૩૮