________________
अधिकार बीजो - घटिकादिनुं प्रमाण
षडपि प्रावृडादय ऋतवो यदा परिपूर्णाः आवृत्ता भवन्ति तदा स आदित्यसंवत्सरो भवति, यद्यपि च लोके षष्ट्यहोरात्रप्रमाणः प्रावृडादिक ऋतुः प्रसिद्धस्तथाऽपि परमार्थतः स एकषष्टयहोरात्रप्रमाणो वेदितव्यः, तत्रैवोत्तरकालमव्यभिचारदर्शनाद्, अत एव तस्मिन् संवत्सरे त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानामवसेयानि, पूर्वं भणितः- पूर्व प्रतिपादितः 'कर्म' कर्मसंवत्सर इति नासौ भूयोऽभिधीयते, किन्तु पूप्रतिपादित एवात्रावधारणीयः, तत्र च रात्रिन्दिवपरिमाणं त्रीणि शतानि षष्टयधिकानि, एतच्च प्रागेवोक्तमत ऊवं 'चान्द्र' चन्द्रसंवत्सरं प्रवक्ष्यामि ॥ ३४ ॥ प्रतिज्ञातमेव निर्वाहयति'द्वादश' द्वादशसङ्ख्याः पौर्णमासीपरावर्ता एकश्चन्द्रः-एकश्चन्द्रसंवत्सरो भवति, एकश्च पौर्णमासीपरावर्त एकश्चान्द्रो मासः, तस्मिंश्च चान्द्रे मासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशद्रात्रिन्दिवानि द्वात्रिंशच्च द्वाषष्टिभागा रात्रिंदिवस्य, एतद् द्वादशभिर्गुण्यते, जातानि त्रीणि शतानि चतुष्पञ्चाशदधिकानि रात्रिंदिवानां द्वादश च द्वाषष्टिभागा रात्रिंदिवस्य, एवंपरिमाणश्चान्द्रः संवत्सरः । सम्प्रति नक्षत्रसंवत्सरमाह-नक्षत्रवृन्दयोगः-सप्तविंशत्या नक्षत्रैः साकल्येन य एकक्रामणयोग एष द्वादशभिर्गुणितो 'नक्षत्रो' नक्षत्रसंवत्सरो भवति, अत्र पुनरेकः समस्तनक्षत्रयोगपर्याय एव नक्षत्रमासः, स च सप्तविंशतिरहोरात्रा एकविंशतिश्च सप्तषष्टिभागा अहोरात्रस्य, एष राशि र्यदा द्वादशभि गुण्यते तदा त्रीण्यहोरात्रशतानि सप्तविंशत्यधिकानि एकपञ्चाशच्च सप्तषष्टिभागा अहोरात्रस्य, एवावत्प्रमाणो नक्षत्रसंवत्सरः ॥ ३५ ॥ साम्प्रतमभिवर्द्धितसंवत्सरमाह-त्रयोदश चन्द्रमासा यस्मिन् संवत्सरे भवन्ति स एष संवत्सरोऽभिवर्द्धित इत्युच्यते, एकस्मिश्च चन्द्रमासेऽहोरात्रा एकोनत्रिंशद् भवन्ति द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एष राशिस्त्रयोदशभिर्गुण्यते, जातानि त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावद्रात्रिंन्दिवपरिमाणोऽभिवर्धितसंवत्सरः, संप्रति एतदेवानन्तरभावितं रात्रिन्दिवपरिमाणं क्रमेण संवत्सराणां साक्षादुपदेष्टुकामः प्रथमतो मासपरिमाणार्थमाह- 'सर्वेषां पञ्चानामपि 'वर्षाणां' संवत्सराणां क्रमेण मासानां परिमाणं वक्ष्ये ॥ ३६ ॥ तदेवाह-'आदित्य' आदित्यसंवत्सरसम्बन्धी खलु मासो भवति त्रिंशद्रात्रिदिवानि एकस्य च रात्रिन्दिवस्यार्द्ध, तथाहि-सूर्यसंवत्सरस्य परिमाणं त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिदिवानि, द्वादशभिश्च मासैः संवत्सरः ततस्त्रयाणां शतानां षट्षष्ट्यधिकानां द्वादशभिर्भागे हृते यथोक्तं मासपरिमाणं