________________
ज्योतिष्करण्डकम्
निदाधः द्वादशो वनविरोह इति, अत्र सूर्यप्रज्ञप्ति वृत्तौ अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तु बनविरोधी इति ।
४२०
[७०] (सू०) 'एगमेगस्स णं भंते ! मासस्स कइ पक्खा पन्नत्ता ?, गोयमा ! दुवे पक्खा पन्नत्ता, तंजहा- बहुलपक्खे सुक्कपक्खे य' ।
(टि०) 'एगमेगस्स' इत्यादि, एकैकस्य भदन्त ! मासस्य कति पक्षाः प्रज्ञप्ताः ? गौतम ! द्वपक्षौ प्रज्ञप्तौ तद्यथा - कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुल: पक्ष: स बहुल पक्ष: शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, द्वौ चकारौ तुल्यताद्योतनार्थं तेन द्वावपि पक्षौ सदृशतिथिनामकौ सदृशसङ्ख्याको भवति इति ।
[७०] (सू० ) एगमेगस्स णं भंते! पक्खस्स कइ दिवसा पन्नत्ता ?, गोयमा ! पन्नरस दिवसा पन्नत्ता, तंजहा - पडिवादिवसे बिइयादिवसे जाव पन्नरसिदिवसे । एएसि णं भंते ! पन्नरसण्हं दिवसाणं कइ नामधिज्जा पन्नत्ता ?, गोयमा ! पन्नरस नामधिज्जा पन्नत्ता, तंजहा - पुव्वंगे सिद्धमणोरमे य मणोहरे चेव । जसभद्दे य जसहरे सव्वकामसमिद्धए ॥ १ ॥ इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्धे अभिजाए अच्चसण सयंजए चेव ॥ २ ॥ अग्गिवेसे उ उवसमे, दिवसाणं नामधिज्जाई ।
(टि०) 'एगमेगस्स ण' मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः ?, यद्यपि दिवसशब्दोऽहोरात्रे रुढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्र ग्रहणं, रात्रि विभागप्रश्नसूत्रस्याग्रे विधास्यमानत्वात्, गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया दृष्टव्यं तत्रैव पूर्णानां पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा प्रतिपदिवसः प्रतिपद्यते पक्षस्याद्यतया इति प्रतिपत् प्रथमो दिवस इत्यर्थः तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया तृतीयो दिवस इत्यादिग्रहः, अन्ते पञ्चदशी पञ्चदशो दिवसः एतेषां भदन्त ! पञ्चदशानां दिवसानां कति ! नामधेयानि प्रज्ञप्तानि ? गौतम ! पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा- प्रथमः पूर्वांगो द्वितीय सिद्धमनोरमस्तृतीयो मनोहरश्चतुर्थो यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिक्तोऽष्टमः सौमनसो नवमो धनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्मः पञ्चदश उपशम इति दिवसानां भवति नामधेयानि इति ।
-
[९१] (सू०) एगमेगस्स णं भंते! पक्खस्स कइ राईओ पन्नत्ताओ ?, गोयमा ! पन्नरस्स राईओ पन्नत्ताओ, तंजहा - पडिवा राई बिइया राई तइया राई जाव पन्नरसीराई । एएसि णं भंते ! पन्नरसहं राईणं कइ नामधेज्जा पण्णत्ता ? गोयमा! पन्नरस नामधेज्जा पन्नत्ता, तंजहा - उत्तमा य सुनक्खत्ता, एलावच्चा जसोधरा । सोमणसी चेव तहा, सिरिसंभूया य आहिया ॥ १ ॥ विजया य वेजयंती, जयंती अपराइया । इच्छा य समाहारा, तेया तहचेव अइतेया ॥ २ ॥ देवाणंदा राई रयणीणं नामधिज्जांइ ।