________________
परिशिष्ट-२
४१५ लक्षैर्गुणैस्तमटटाङ्गं २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अववाङ्गं २५, अववं २६, हुहुकाङ्गं २७, हुहुकं २८, उत्पलाङ्ग २९, उत्पलं ३०, पद्माङ्ग ३१, पद्मं ३२, नलिनाङ्ग ३३, नलिनं ३४, अर्थनिपूराङ्ग ३५, अर्थनिपूरं ३६, अयुताङ्ग ३७, अयुतं ३८, नयुताङ्गं ३९, नयुतं ४०, प्रयुताङ्ग ४१, प्रयुतं ४२, चूलिकाङ्गं ४३, चूलिका ४४, शीर्ष प्रहेलिकाङ्गं ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्या लक्षैगुणितं शीर्षप्रहेलिका भवति ४६, अस्याः स्वरूपमङ्कतोऽपि दर्श्यते - ७५८२६३ २५३०७३०१०२४११ ५७९ ७३५ ६९९ ७५ ६९६ ४०६ २१८ ९६६ ८४८०८० १८३२९६ अग्रे च चत्वारिंशं शून्यशतं १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भविनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि सङ्ख्येय कालोऽस्ति, किन्त्वनतिशयिनामसंव्यवहार्यत्वात्, सर्षपाधुपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः ? कि तर्हि ? उपमामात्राप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपमसागरोपमेअत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपम कोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसपिर्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीतानगत वर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेष भावना तु पूर्वोक्तानुसारतः सुकरैव, यावत् कालानुपूर्वी समाप्ता ॥ ११४ ॥
[६३] "से किं तं परमाणू ?, २ दुविहे पन्नत्ते, तं जहा- सुहमे अ ववहारिए अ, तत्थ णं जे से सुहुमे से ठप्पे, तेसि णं अणंताणं सुहुमपोग्गलाणं समुदय समिइसमागमेणं ववहारिए परमाणुपोग्गले निप्फज्जइ" (अनुयोगद्वार सू. १३४)
(टी०) 'से किं तं परमाणू' इत्यादि, परमाणुर्द्विविधः प्रज्ञप्तः-सूक्ष्मो व्यवहारिकश्च, तत्र, सूक्ष्मस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः, 'से किं तं ववहारिए' इत्यादि, ननु कियद्भिः सूक्ष्मै श्चयिकपरमाणुभिरेको व्यावहारिकः परमाणुनिष्पद्यते ? अत्रोत्तरम्, 'अणंताण'मित्यादि, अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदाया:-द्वयादिसमुदायात्मकानि वृन्दानि तेषां याः समितयो-बहूनि मीलनानि तासां समागमः-संयोग एकीभवनं समुदयसमितिसमागमः तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते, इदमुक्तं भवति - निश्चयनयः -
"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥" इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः,