________________
३९२
ज्योतिष्करण्डकम्
गतमिति ॥ चतुर्थपर्वजिज्ञासायां चतुष्को ध्रियते, स किल [कृत] युग्मराशिरिति न किमपि तंत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकशतस्य भागं न प्रयच्छन्ति ततस्तेऽर्धीक्रियन्ते, जाती द्वौ, तौ त्रिंशता गुण्येते, जाता षष्टिः तस्या द्वाषष्ट्या भागो हियते, भागश्च न लभ्यते इति छेद्यच्छेदकराश्योरर्द्धनापवर्तना, जाता त्रिंशद् एक त्रिंशत्, आगतं चतुर्थं पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गच्छतीति । सम्प्रति मूलटीकोपदर्शितमुदाहरणमुपदर्श्यते-त्र्यशीतितमं पर्व चरमेऽहोरात्रे कतिषु मुहूर्तेषु गतेषु कतिमुहूर्तभागेषु च समाप्तिं गच्छतीति त्र्यशीतिध्रियते, अत्र चतुभिर्भागे ह्रियमाणे त्रयः शेषा उद्धरन्ति इति वेतौजोराशिस्ततोऽत्रैकत्रिंशत् प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतम् ११४, एतच्चतुविंशत्यधिकस्य शतस्य भागं न प्रयच्छतीत्येतस्यार्द्ध क्रियते, जाता सप्तपञ्चाशत्, सा त्रिंशता गुण्यते, जातानि सप्तदश शतानि दशोत्तराणि १७१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा सप्तविंशतिः, शेषा तिष्ठति षट्त्रिंशत् ३६, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धा अष्टादशैकत्रिंशद्भागाः, आगतं-त्र्यशीतितमं पर्व चरमेऽहोरात्रे सप्तविंशति मुहूर्त्तान् एकस्य च मुहूर्तस्याष्टादशैकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति, चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शतं ध्रियते, तस्य किल चतुर्भिर्भागे हृते न किमपि शेषमवतिष्ठते इति, कृतयुग्मोऽयं राशिस्ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिनिर्लेपः, आगतं परिपूर्णं चरमं दिनं भुक्त्वा चतुर्विंशत्यधिकशततमं पर्व समाप्तिं गतमिति ॥ ३५९॥ सम्प्रति प्रस्तुतप्राभृतोपसंहारमाह
अवमासपुण्णमासी एवं विविहा मए समक्ख्याया । 'एवम्' उक्तेन प्रकारेणामावास्या पौर्णमासी च विविधा-अनेकप्रकारा, तद्यथाचन्द्रनक्षत्रपरिज्ञानपुरःसरा सूर्यनक्षत्रपरिज्ञानपुरःसरा चरमदिवसमुहूर्तमुहूर्तभागपरिज्ञानपुरःसरा च, मया समाऽऽख्याता ॥
॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां नक्षत्रयोगममावास्यापौर्णमासीप्रतिपादमेकोनविंशतितमं प्राभृतं समाप्तम् ॥
આ યુવરાશિની ઉત્પત્તિમાં ઉપાયો કહ્યા હવે, કયું પર્વ ચરમ દિવસે કેટલા મુહૂર્ત પસાર થતા સમાપ્ત થાય છે? એ વિષયનું કરણ બતાવે છે.
ગાથાર્થ : પર્વ રાશિને ૪થી ભાગતાં શેષ રહે તો કલ્યોજ કહેવાય છે, બે શેષ રહે તો દ્વાપર યુગ્મ, ત્રણ રહે તો તેત્રીજા અને ચાર શેષ રહે તો કૃતયુગ્મ કહેવાય છે.