________________
अधिकार पहेलो काळ प्रमाण
९
કહે છે. સંખ્યાત - અસંખ્યાત અને અનંત એમ ત્રણ પ્રકારનો કાળ તીર્થંકર-ગણધરો એ निर्देश र्यो छे. त्यां समयथी - शीर्षप्रसिडा सुधीनो ने आज ते संख्येय आज, પલ્યોપમાદિ કાળ તે અસંખ્યકાળ અને અનંતોત્સર્પિણી અવસર્પિણી આદિકાળ તે
અનંતકાળ છે.
ત્યાં સૌપ્રથમ સંધ્યેયકાળની વિવક્ષા કરે છે—
(१) संध्येयाण-नासिा प्रभा
-
कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा हवइ हु उस्सासनिस्सासो ॥ ८ ॥ उस्सासो निस्सासो य दोऽवि पाणुत्ति भन्नए एक्को । पाणा य सत्त थोवा थोवावि य सत्त लवमाहु ॥ ९ ॥ अट्ठतीसं तु लवा अद्ध लवो चेव नालिया हो ।
यः कालः
'परमनिरुद्धः' परमनिकृष्टः, एतदेव व्याचष्टे-'अविभज्यः' विभक्तुमशक्यः किमुक्तं भवति ? - यस्य भूयोऽपि विभागः कर्तुं न शक्यते स कालः परमनिरुद्ध:, तमित्थम्भूतं परमनिरुद्धं कालविशेषं समयं जानीहि स च समयो दुरधिगमः, तं हि भगवन्तः केवलिनोऽपि साक्षात् केवलज्ञानेन विदन्ति, न तु शृङ्गग्राहिकया परेभ्यो निर्देष्टुं शक्नुवन्ति, निर्देशो हि प्रथमतः कायप्रयोगेण भाषाद्रव्याण्यादाय पश्चाद्वाक्पर्याप्तिकरणप्रयोगतो विघीयते, ततो यावत्समय इत्येतावन्त्यक्षराण्युच्चार्यन्ते तावदसङ्ख्येयाः समयाः समतिक्रामन्तीति न साक्षाद्विनिर्लुठितरूपतया निर्देष्टुं शक्यते, इत्थम्भूताः समया असङ्ख्येया एक उच्छवासनिःश्वासो भवति, किमुक्तं भवति ? - अनन्तरोक्तस्वरूपाः समया जघन्ययुक्ता - सङ्ख्यातकप्रमाणा एकाऽऽवलिका, सङ्ख्येयाऽऽवलिका एक उच्छवासः तावत्प्रमाण एवैको निःश्वासः, तयोश्चायं भेदः - उर्ध्वगमनस्वभाव उच्छ्वासः अधोगमनस्वभावो निःश्वासः ॥ ८ ॥ पुरुषस्य शारीरिकबलोपेतस्यानुपहतकरणग्रामस्य नीरुजस्य प्रशस्ते यौवने वर्त्तमानस्यानाकुलचेतसो य एकः उच्छ्वासः सङ्ख्येयावलिकाप्रमाणो यश्चैको निःश्वासः सङ्ख्यातावलिकाप्रमाण एव तौ द्वावपि समुदितावेकः प्राणो भण्यते, प्राणो नाम कालविशेषः, एतदुक्तं भवति - यथोक्तपुरुषगतोच्छ्वासनिःश्वासप्रमितः कालविशेष: प्राण इति,
>