SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३७९ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग दधिकानि ४१५४, तैर्भागो हियते, लब्धमेकं नक्षत्रं १, शेषाणि तिष्ठन्ति द्वाविंशतिशतान्यष्ट षष्ट्यधिकानि २२६८, ततो दिवसानयनार्थं छेदराशिभषष्टिरूपः कर्तव्यः केवलं पंचभिः सप्तषष्टिभागैरहोरात्रो भवतीति पंचभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि ३१०, तैर्भागो हियते, लब्धाः सप्त दिवसाः ७, शेषा तिष्ठत्यष्टानवतिः ९८, सा मुहूर्त्तानयनार्थं त्रिंशता गुणयितव्या, तत्र गुणाकारराशिच्छेदराश्योः शून्येनापवर्त्तना, जातो गुणकारराशिस्त्रिकरूपः छेदराशिरेकत्रिंशत् ३१, तत्र त्रिकेनोपरितनो राशिगुण्यते, जाते द्वे शते चतुर्नवत्यधिके २९४, तयोरेकत्रिंशता भागो हियते, लब्धा नव मुहूर्ताः ९ एकस्य च मुहूर्तस्य पंचदश एकत्रिंशद्भागाः १५।३१, यच्चैकं नक्षत्रं लब्धं तत् किल पुष्यानन्तरभावित्वाद् अश्लेषा, अश्लेषानक्षत्रं चार्धक्षेत्रं ततस्तद्गताः षड् दिवसा द्वादश (एकविंशतिः) मुहूर्ता उद्धरंति, ते च यथाक्रमं दिवसराशौ मुहूर्तराशौ च प्रक्षिप्यन्ते, जाताः सर्वसंख्यया चतुर्दश दिवसाः, त्रयोदशभिश्च दिवसैदशभिर्भुहूर्तेर्मघा शुद्धा, शेषाः तिष्ठन्त्यष्टादश मुहूर्ताः, आगतं द्वितीयं पर्व पूर्वाफाल्गुनीनक्षत्रस्याष्टादश मुहूर्तान् एकस्य च मुहूर्तस्य पंचदश एकत्रिंशद्भागान् भुक्त्वा समाप्तिं गतमिति । एवं शेषेष्वपि पर्वसु सूर्यनक्षत्राणि भावनीयानि ॥ ३४४-४६ ॥ सम्प्रत्यत्रैवार्थे करणान्तरमभिधित्सुः प्रथमतो ध्रुवराशिमाह चोइस दिवसा बावीस मुहुत्ता चुणिया य तेवीसं । एक्कत्तीसइभागा पव्वीकयरिक्खधुवरासी ॥ ३४७ ॥ सर्वेष्वपि पर्वसु 'ऋक्षध्रुवराशिः' सूर्यनक्षत्रविषयो ध्रुवराशिः 'पर्वीकृतः' एकेन पर्वणा निष्पादितोऽयं, तद्यथा-चतुर्दश दिवसा एकस्य दिवसस्य द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य त्रयोविंशतिरेकत्रिंशद्भागा इति, कथमस्योत्पत्तिः ? इति चेदुच्यते, यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना १२४-५-१, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात्, ततश्चतुर्विशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पञ्च चतुविंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयाम इति गुणकारच्छेदराश्योरर्द्धनापवर्त्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिभषष्टिः ६२, नवभिश्च शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पंचचत्वारिं
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy