________________
અધિકાર-૧૮ દિવસની હાનિ-વૃદ્ધિ
तदेवमुक्तं सप्तदशं प्राभृतं, साम्प्रतं दिवसवृद्वयपवृद्धिप्रतिपादकमष्टादशं प्राभृतं विवक्षुरिदमाह
बारस धुवा मुहत्ता दिवसे रत्तीवि होइ बारसिगा।
छच्च उ चरा मुहुत्ता अयंति रत्तिं च दिवसं य ॥ ३०५ ॥ दिवसे ध्रुवा मुहूर्ता द्वादश, किमुक्तं भवति ? सर्वजघन्योऽपि दिवसो द्वादशमुहूर्ता भवति, न तु कदाचनापि द्वादशभ्यो हीनमुहूर्तप्रमाण इति, रात्रिरपि भवति सर्वजघन्या द्वादशमुहूर्तप्रमाणा, रात्रावपि ध्रुवा द्वादश मुहूर्ता इति भावः, षट् च मुहूर्ताश्चरा-अध्रुवाः, ते हि दिवसाद्विनिर्गत्य रात्रिमायान्ति, रात्रेर्वा विनिर्गत्य दिवसमिति, इयमत्र भावनासर्वजघन्यो द्वादशमुहूर्तो दिवसो भूत्वा तदनन्तरं प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयवृद्ध्या तावद्वर्द्धते यावदष्टादशमुहूर्तप्रमाणो भवति, यदा च दिवसो द्वादशमुहूर्तप्रमाणस्तदा रात्रिरष्टादशमुहूर्तप्रमाणा, ततस्तदनन्तरं प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयहान्या तावद्धानिमुपैति यावदष्टादशमुहूर्तप्रमाणो दिवसो भवति तदा द्वादशमुहूर्तप्रमाणा रात्रिः, ततस्तदनन्तरं साऽपि प्रतिदिवसं मुहूर्तेकषष्टिभागद्वयवृध्ध्या तावद्वर्द्धते यावदष्टादशमुहूर्तप्रमाणा भवति रात्रिः, यस्माद्दिवसादारभ्य रात्रिर्मुहूर्तेकषष्टिभागद्वयवृध्ध्या वर्द्धते तस्माद्दिवसादारभ्य दिवसो मुहूर्तेकषष्टिभागद्वयहान्या हानिमुपगच्छति, स च तावद् यावद् यदाऽष्टादशमुहूर्तप्रमाणा रात्रिस्तदा द्वादशमुहूर्त्तप्रमाणो दिवसः, तत एवं षण्मुहूर्ताश्चराः, दिवसाद्विनिर्गत्य रात्रिमायान्ति रात्रेर्वा विनिर्गत्य दिवसमायान्तीति ॥ ३०५ ॥ अथ कस्मिन्नयने दिवसाद्विनिर्गत्य षण्मुहूर्ता रात्रिमायान्ति ? कस्मिन् वाऽयने रात्रेविनिर्गत्य दिवसामिति प्रश्नावकाशमाशंक्याह