________________
३२०
ज्योतिष्करण्डकम्
સર્વોપરિતન સ્થળે રહેલા તારા ચારો ચરે છે. સૂર્યની પણ નીચે ૧૦ યોજને સર્વ નીચેના તારા ભમે છે અને એ રીતે એકસો દસ યોજના જ્યોતિશ્ચક્રની જાડાઈ છે તે આવા પ્રકારની જ્યોતિશ્ચક્રની જાડાઈમાં સૂર્ય અને ચંદ્રોની નીચે, ઉપર અને સમાન સર્વ સ્થળે तारामो यारो यरे छ. ॥ २८४ ॥
આ રીતે જ્યોતિશ્ચક્રનું સ્વરૂપ બતાવ્યું હવે બંને સૂર્યો પ્રત્યેક જેટલા પ્રમાણ ક્ષેત્રને પ્રકાશિત કરે છે તેટલું પ્રમાણ જણાવે છે
छच्चेव उ दसभागे जंबुद्दीवस्स दोवि दिवसयरा ।
तावंति दित्तलेसा अभितरमण्डले सन्ता ॥ २९५ ॥ द्वावपि दिवसकरौ दीप्तलेश्याको सर्वाभ्यन्तरमण्डले व्यवस्थितौ सन्तौ षड् दशभागान् जम्बूद्वीपस्य प्रकाशयतः, किमुक्तं भवति ?
एकैकस्त्रीन् त्रीन् दशभागान् प्रकाशयतीति, इयमत्र भावना-इदं जम्बूद्वीपक्षेत्रचक्रवालं दशधा परिकल्प्यते, तद्यथा-त्रयो भागा मन्दरस्य दक्षिणभागे त्रय उत्तरभागे च, द्वौ भागौ पूर्वतो द्वौ चापरतः, तत्र भरतक्षेत्रगसूर्यः सर्वाभ्यन्तरे मण्डले यदोपसंक्रम्य चारं चरति तदा त्रीन् भागान् दाक्षिणात्यान् [प्रकाशयति एरवतगः] त्रीन् भागानौत्तराहानैरावतक्षेत्रमग्रतो द्वौ भागौ पूर्वतो रजनी द्वौ चापरतोऽपि, यथा यथा क्रमेण दाक्षिणात्य औत्तराहो वा पुरतः संचरति तथा तथा तयोः प्रत्येकं तापक्षेत्रमग्रतो वर्द्धते पृष्ठतश्च हानिमुपगच्छति, एवं च क्रमेण संचरणशीले तापक्षेत्रे यदैकः सूर्यः पूर्वस्यां द्वितीयोऽपरस्यां वर्तते तदा पूर्वपश्चिमदिशोः प्रत्येकं त्रीन् त्रीन् भागान् तापक्षेत्रं, द्वौ द्वौ च भागौ दक्षिणोत्तरयोः प्रत्येकं रजनीति । अथ भागः किं परिमाणः ? उच्यते, मुहूर्त्तषट्काक्रमणीयप्रमाणः, तथाहि- पूर्वस्मिन्नपि मण्डले वर्तमाने सूर्ये दिवसोऽष्टादशमुहूर्तप्रमाणस्ततस्तस्मिन् मण्डले नवभिर्मुहूर्तर्यावदाक्रमणीयं क्षेत्रं तावति स्थितिश्चक्षुःस्पर्शमधिगच्छति, तत एतावत्प्रमाणं सूर्यात् अर्वाक् तापक्षेत्रमेतावत्प्रमाणं च परतोऽपि, तथा च सति सर्वसंख्ययाऽष्टादशमुहूर्ताक्रमणीयप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, तच्च किल जम्बूद्वीपचक्रवालदशभागत्रिभागात्मकमत आगतं षण्मुहूर्ताक्रमणीयप्रमाणक्षेत्रमेकस्य भागस्य परिमाणम्, एतच्च