________________
३०४
ज्योतिष्करण्डकम् प्रथमं विषुवं भवति । द्वितीयविषुवचिंतायामेवं त्रैराशिकं यदि दशभिर्विषुवैरष्टादशशतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः पंचभिरयनद्विभागैः किं लभ्यमिति, राशित्रयस्थापना १०-१८३५-५, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातान्येकनवतिशतानि पंचसप्तत्यधिकानि ९१७५, ततः प्रागुक्तयुक्त्याऽऽद्यो राशिर्वाभ्यां गुण्यते, जाता विंशतिः, तया भागो ह्रियते, लब्धानि लग्नपर्यायाणां चत्वारि शतान्यष्टपंचाशदधिकानि ४५८, न तैः प्रयोजनं, शेषास्तिष्ठन्ति पंचदश, ततः प्रागुक्तगणितक्रमेणागतमश्विनीनक्षत्रस्य लग्नप्रवर्तकस्य चतुस्त्रिंशदधिकशतभागानामेकोनसप्ततिसंख्येषु भागेषु द्वितीयं विषुवं प्रवर्त्तते । एवं पंचस्वपि दक्षिणायनविषुवेषु लग्नं भावनीयं । साम्प्रतमुत्तरायणविषुवलग्नभावना क्रियते-यदि दशभिविषुवैरष्टादश शतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां भवन्ति ततस्त्रिभिरयनविभागैः किं लभ्यमिति, राशित्रयस्थापना १०-१८३५-३, अत्रान्त्येन राशिना मध्यस्य राशेर्गुणनं, जातानि पंचपंचाशच्छतानि पंचोत्तराणि ५५०५, ततः प्रागुक्तयुक्त्याऽऽद्यो राशिर्वाभ्यां गुण्यते, जाता विंशतिः, तया भागो हियते, लब्धे द्वे शते पंचसप्तत्यधिके २७५ लग्नपर्यायाणां, न च तैः प्रयोजनं, शेषास्तिष्ठन्ति पंच, स च किल एकश्चतुर्भाग इत्येकः स्थाप्यते, ततः प्रागुक्तयुक्त्या स नवभिः शतैः पंचदशोत्तरैर्गुण्यते, जातानि नव शतानि पंचदशोत्तराणि ९१५, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७, तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते, लब्धाः षट्, पश्चात्तिष्ठति त्रयोविंशतिः, षड्भिश्चाश्लेषादीनि चित्रापर्यान्तानि षड् नक्षत्राणि शुद्धानि, आगतं स्वातिनक्षत्रस्य लग्नप्रवर्तकस्य चतुस्त्रिंशदधिकशतभागानामेकोनसप्ततिसंख्येषु भागेषु गतेषु द्वितीयं विषुवं प्रवर्तते । चतुर्थविषुवचिंतायामेवं त्रैराशिकं-यदि दशभिविषुवैरष्टादशशतानि पंचत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः सप्तभिरयनद्विभागैः किं लभ्यमिति, राशित्रयस्थापना १०-१८३५७, अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातानि द्वादश सहस्राण्यष्टौ शतानि पंचचत्वारिंशदधिकानि १२८४५, तेषां विंशत्या भागो हियते, लब्धानि षड् शतानि द्विचत्वारिंशदधिकानि लग्नपर्यायाणां ६४२, शेषास्तिष्ठन्ति पंच, ततः प्रागुक्तगणितक्रमेणागतं स्वातिनक्षत्रस्य लग्नप्रवर्तकस्य चतुस्त्रिंशदधिकशतभागानामेकोन-सप्ततिसंख्येषु भागेषु गतेषु चतुर्थं विषुवं प्रवर्त्तते, एवं पंचस्वप्युत्तरायणविषुवेषु लग्नं भावनीयम् । इह यदा सूर्यो दक्षिणायनविषुवेऽश्विन्यां वर्त्तते तदा पाश्चात्यं लग्नं स्वातौ, स्वात्यश्चिन्योश्च मध्येऽभिजिद्वर्त्तते स्म भाविद्वितीयार्द्धमध्ये च भावी पुष्यः, ततो दक्षिणायनविषुवेषु पंचस्वपि अभिजित् नभस्तले अतिक्रान्तपाश्चात्यार्द्धवर्तित्वात्, पुष्यो रसातले भाव्युत्तरार्द्धमध्यभावित्वात्, यदा तु रविरुत्तरायणविषुवे स्वातौ वर्त्तते तदा पाश्चात्यं लग्नमश्विन्यां, स्वात्यश्विन्योश्च मध्ये च पुष्यो,