________________
अधिकार पंदरमो - विषुव
२९५
एकेन गुणितं तदेव भवतीति तत आगतं प्रथमं विषुवं तृतीयस्यां तिथौ, द्वितीयविषुवचिन्तायां ते त्रयस्त्रिर्भिगुण्यन्ते, जाता नव, आगतं द्वितीयं विषुवं नवम्यामिति, तृतीयविषुवचिन्तायां ते त्रयः पंचर्भिगुण्यन्ते, जाता: पंचदश, आगतं तृतीयं विषुवं पंचदश्यां, चतुर्थविषुवचिन्तायां ते त्रयः सप्तभिर्गुण्यन्ते, जाता एकविंशतिः तत्र पंचदशभिः पर्व कृतं, शेषास्तिष्ठन्ति षड् आगतं चतुर्थविषुवं षष्ठ्यामिति, एवं सर्वत्रापि भावनीयं ॥ २८६ ॥ सम्प्रति केन नक्षत्रेण सह योगे किं विषुवमिति चिन्त्यते, तत्र यदि दशभिर्विषुवैः सप्तषष्टिश्चन्द्रपर्याया लभ्यन्ते ततो द्विभागविषुवेन कति चन्द्रपर्याया लभ्यन्ते ? राशित्रयस्थापना १०-६७ - १, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेः सप्तषष्टिरूपस्य गुणनं, जाता सप्तषष्टिरेव विषुवं चायनस्य द्विभागरूपमिति दश द्वाभ्यां गुण्यन्ते, जाता विंशतिः, तया सप्तषष्टेर्भागो हियते, लब्धास्त्रयो नक्षत्रपर्यायाः, शेषास्तिष्ठन्ति सप्त, ते पर्यायरूपं भागं न प्रयच्छन्तीति अष्टादशभिः शतैस्त्रिंशैः सप्तषष्टिभागैर्गुणयिष्याम इति विंशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्त्तनायां जातं त्र्यशीत्यधिकं शतं १८३, तेन सप्त गुण्यन्ते, जातानि द्वादश शतानि एकाशीत्यधिकानि १२८१, छेदराशिश्च विंशतिलक्षणोऽन्त्यशून्यापवर्त्तनाज्जातो द्विकः, तेन सप्तषष्ट्यादयः समक्षेत्रादिनक्षत्रभागा गुण्यन्ते, जातानि चतुस्त्रिंशदधिकशतादीनि शोधनकानि, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानि शेषाणि द्वादश शतानि एकोनचत्वारिंशदधिकानि १२३९, ततः षड्भिः शतैः सप्तत्यधिकैः ६७० उत्तरभद्रपदान्तानि पंच नक्षत्राणि शुद्धानि स्थितानि पश्चात्पंच शतान्येकोनसप्तत्यधिकानि ५६९, ततश्चतुस्त्रिंशदधिकेन शतेन रेवती शुद्धा, स्थितानि चत्वारि शतानि पंचत्रिंशदधिकानि ४३५, ततोऽपि चतुस्त्रिंशदधिकेन शतेनाश्विनी शुद्धा, शेषाणि तिष्ठन्ति त्रीणि शतानि एकोत्तराणि ३०१, ततः सप्तषष्ट्या भरणी शुद्धा, स्थिते पश्चाद् द्वे शते चतुस्त्रिंशदधिके २३४, ततोऽपि चतुस्त्रिंशदधिकेन शतेन कृत्तिका शुद्धा, शेषं तिष्ठति शतम्, आगतं श्रवणादीनि कृत्तिकापर्यंतानि नव नक्षत्राण्यतिक्रम्य दशमस्य रोहिणीनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानां शतमवगाह्य प्रथमं विषुवं भवतीति । द्वितीयं विषुवं कस्मिन् चन्द्रनक्षत्रे भवति ? इति यदि ज्ञातुमिच्छा तदा पूर्वक्रमेण त्रैराशिकमनुसर्त्तव्यं, तद्यथा - यदि दशभिर्विषुवैः सप्तषष्टिश्चद्रनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां विषुवाभ्यां कति चन्द्रनक्षत्रपर्यायान् लभामहे: ? राशित्रयस्थापना १० - ६७-३, इह द्वितीयं विषुवं त्रिभिरयनविभागैर्भवतीत्यतो राशिस्त्रिकरूपः स्थाप्यते, तेन चान्त्येन राशिना