________________
अधिकार पंदरमो - विषुव
२८९
જે પંદર મુહૂર્ત પ્રમાણ દિવસ અને દિવસ સમાન જ રાત્રિ છે અહીં ૯૨મા મંડળમાં પણ સમાન રાત્રિ-દિવસ થતા નથી કેમ કે ત્યાં કલા ન્યુનાધિક છે. પરંતુ તે કલાની અહીં વિવક્ષા નથી એટલે ત્યાં સમ-રાત્રિ-દિવસો ગણાય છે. આવી રાત્રિहिवसनी संधियां थे आज ते विषुवाण छे. ॥ २८० ॥
હવે, કેટલા પર્વ પસાર થતાં કઈ તિથિમાં ઇચ્છિત વિષુવ થાય છે તે લાવવા માટે કરણ બતાવાય છે.
કરણ નં. ૧
इच्छिविसुवा बिगुणा रूवूणा छग्गुणा भवेयव्वा । पव्वद्धे होंति तिही नायव्वा सव्वविसुवेसु ॥ २८१ ॥
युगमध्ये ईप्सितानि - विवक्षितानि यानि विषुवानि तानि धियंते, किमुक्तं भवति ? तत्संख्या ध्रियते, इति, धृत्वा च तानि द्विगुणानि क्रियन्ते, ततो रूपोनानि, तदनन्तरं च षड्गुणानि कर्त्तव्यानि, षड्भिश्च गुणने यदागच्छति तानि पर्वाणि ज्ञातव्यानि, पर्वणां चार्द्धे यद् भवति तास्तिथयः सर्वेषु विषुवेषु यथायोगं ज्ञातव्याः, एष करणगाथाक्षरार्थः, सम्प्रति करणभावना क्रियते-कतिपर्वातिक्रमे कस्यां तिथौ प्रथमं विषुवमिति जिज्ञासायां रूपमेकं स्थाप्यते, तद् द्विगुणं क्रियते, जाते द्वे रूपे, ते रूपोने क्रियेते, स्थितं भूय एकं रूपं, तस्य षड्भिर्गुणने जाताः षट् ते प्रतिराश्यन्ते, प्रतिराश्य च तेषामर्द्धं क्रियते, जातास्त्रयः आगतं षट्पर्वातिक्रमे तृतीयस्यां तिथौ प्रथमं विषुवमिति, तथा द्वितीयं विषुवं कतिपर्वातिक्रमे कस्यां तिथौ भवति ? इति यदि जिज्ञासा तदा द्वे रूपे ध्रियेते, ते द्विगुणे जातानि चत्वारि, तानि रूपोनानि क्रियन्ते, स्थितानि पश्चात्त्रीणि, तानि षड्भिर्गुण्यंते, जातान्यष्टादश, तानि प्रतिराश्यन्ते, तेषां च प्रतिराशितानामर्द्धं नव, आगतं द्वितीयं विषुवमष्टादशपर्वातिक्रमे नवम्यां तिथाविति, तथा कतिपर्वातिक्रमे कस्यां तिथौ तृतीयं विषुवमिति जिज्ञासायां त्रीणि रूपाणि ध्रियन्ते तानि च द्वाभ्यां गुण्यंते, जातानि षट्, तेषामेकरूपापहारे स्थितानि पश्चात्पञ्च, तानि षड्भिर्गुण्यंते, जाता त्रिंशत्, सा प्रतिराश्यते, प्रतिराशितायाश्च तस्या अर्द्धं पञ्चदश, आगतं त्रिंशत्पर्वातिक्रमे पञ्चदश्यां तृतीयं विषुवमिति तथा दशमं विषुवं कतिपर्वातिक्रमे कस्यां तिथौ भवति ? इति यदि ज्ञातुमिच्छा तदा दशको ध्रियते, स द्विगुण्यते, जाता विंशतिः, तस्या एकं रूपमपहियते, जाता एकोनविंशतिः, सा षड्भिर्गुण्यते, जातं चतुर्दशोत्तरं शतं, तत्प्रतिराश्यते, तस्यार्द्धं सप्तपञ्चाशत्, तस्याः पर्वानयनाय पञ्चदशभिर्भागो हियते, लब्धानि त्रीणि पर्वाणि, तानि पर्वराशौ प्रक्षिप्यन्ते, पश्चादवतिष्ठन्ते च द्वादश, तत आगतं सप्तदशोत्तरपर्वशतातिक्रमे द्वादश्यां दशमं विषुवमिति ॥ २८९ ॥ अत्रैवार्थे करणान्तरमाह