________________
અધિકાર-૧૫ : વિષુવ
तदेवमुक्तमृतुपरिमाणप्रतिपादकं चतुर्दशं प्राभृतं, सम्प्रति विषुवत्प्रतिपादकं पंचदशं प्राभृतं विवक्षुराह
आसोयकत्तियाणं मज्झे वइसाहचित्तमज्झे य ।
एत्थ सममहोरत्तं तं विसुवं अयणमज्झेसु ॥ २७९ ॥ अश्वयुक्कार्तिकयोसियोर्मध्ये तथा वैशाखचैत्रयोर्मध्ये 'अत्र' अस्मिन्नन्तरे सममहोरात्रं भवति, तच्च पूर्वपुरुषपरिभाषया विषुवमिति व्यवहियते, तथा चोक्तमभिधानकोशे"समरात्रिंदिवः कालो, विषवत् विषुवं च तत्" इत्थम्भूतानि विषुवाणि 'अयनमध्येषु' अयनमध्यभागेषु भवन्ति, इयमत्र भावना-अश्वयुग्मासानन्तरं कार्तिकमासे यथायोगं दक्षिणायनविषुवानां सम्भवः, तथा चैत्रमासानन्तरं वैशाखे यथासम्भवमुत्तरायणविषुवसंभवः, तत एतस्मिन्नवकाशे समाहोरात्रसम्भवो, यथा पंचदशमुहूर्त्तप्रमाणो दिवसो भवति पंचदशमुहूर्तप्रमाणा च रात्रिः, तच्चेत्थंभूतं सममहोरात्रं मण्डलमध्यभागगत एव रवौ भवति, तद्यथा-सर्वाभ्यन्तरान्मण्डलाद् द्विनवतितमे मण्डले सर्वबाह्यादपि मण्डलाद् द्विनवतितम इति, इत्थम्भूतं च द्विनवतितमं मण्डलं यदा सूर्य उपसंक्रम्य चारं चरति तदा स कालो व्यवहारतो विषुवमित्याख्यायते, निश्चयतस्तु यस्मिन्नहोरात्रे समो दिवसः समा रात्रिस्तस्मिन्नस्तप्राये सूर्ये यो रात्रिप्रवेशकालः सार्द्धद्विनवतितममण्डलसंभवी स कालो विषुवमिति, तथा चोक्तं मूलटीकायां-"रविमण्डलमज्झनाम विसुवं"ति ॥ २९ ॥ सम्प्रति नैश्चयिकमेव विषुवकालप्रमाणमननन्तरोक्तं सूत्रकृदुपदर्शयति
આ રીતે ઋતુ પરિમાણ પ્રતિપાદક ચૌદમું પ્રાભૂત પૂર્ણ થયું. હવે વિષુવનું પ્રતિપાદક પંદરમું પ્રાભૃત જણાવે છે
१. तुला - अमरकोशे १-४-१४ ॥ २. 'रविमण्डलमध्यनाम विषुवदिति