________________
२७१
अधिकार चौदमो - ऋतु परिमाण एतदेवाह-'रविसहिय' मित्यादि, रविसहितमतिरात्रं, किमुक्तं भवति ? रविमासनिष्पद्यमान चिन्तायां तस्मिन् तृतीयादौ वर्षाकालदिसम्बन्धिनि पर्वणि तत्तत्सूर्य परिसमाप्तौ कर्ममासापेक्षया एकैकोऽधिकोऽहोरात्रः प्राप्यत इति, शशिसहितमवमरात्रं, चन्द्रनिष्पादितास्तिथीरधिकृत्य कर्ममासापेक्षया विवक्षितं तृतीयादिपर्व हीनरात्रं भवतीत्यर्थः ॥ २६८ ॥ सम्प्रति येषु मासेषु सूर्यर्तुपरिसमाप्तिचिन्तायां पूर्वपूर्वसूर्यर्तुगततिथ्यपेक्षयाऽधिकोऽहोरात्रः परिवर्द्धते तान् प्रतिपादयति
आसाढवहुलपक्खे मद्दवए कत्तिए य पोसे य। फग्गुणवेसाहेसु य अइरत्तं होइ बोद्धव्वं ॥ २६८ ॥
आषाढबहुलपक्षे तथा भाद्रपदे मासे बहुलपक्षे एवं कार्तिक पौषे फाल्गुने वैशाखे वाऽतिरात्रं बोद्धव्यं, पूर्वपूर्वसूर्यर्तुगततिथ्यपेक्षया एतेषु षट्सु मासेष्वधिकोऽहोरात्रो ज्ञातव्यो, न शेषेषु मासेषु, ॥ २६८ अ ॥ एतदेव सविशेषमाह
एक्कंतरिया मासा तिही य जासु तु उऊ समप्पंति ।
आसाढाई मासा भद्दवयाई तिही सव्वा ॥ २६९ ॥ इह सूर्य चिन्तायां मासा आषाढादयो द्रष्टव्याः, आषाढमासादारभ्य ऋतूनां प्रथमतः प्रवर्त्तमानत्वात्, तिथयः सर्वा अपि भाद्रपदाद्याः, भाद्रपदादिषु मासेषु प्रथमादीनामृतूनां परिसमाप्तत्वात्, तत्र येषु मासेषु यासु वा तिथिषु 'ऋतवः' प्रावृडादयः सूर्यसत्काः परिसमाप्नुवन्ति ते आषाढादयो मासाः ताश्च तिथयो ‘भाद्रपदाद्याः' भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः, तथाहि-प्रथम ऋतुर्भाद्रपदे मासे समाप्तिमुपैति, तत एकं मासमश्वयुगलक्षणमपान्तराले मुक्त्वा कार्तिके मासे द्वितीय ऋतुः परिसमाप्तिमियर्ति, एवं तृतीयः पौषमासे चतुर्थः फाल्गुने पंचमो वैशाखे षष्ठ आषाढे, एवं शेषा अपि ऋतवः षट्सु मासेष्वेकान्तरेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु, तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति, द्वितीयः तृतीयायां तृतीयः पंचम्यां चतुर्थः सप्तम्यां पंचमो नवम्यां षष्ठ एकादश्यां सप्तमस्त्रयोदश्यां अष्टमः पंचदश्यां, एते सर्वेऽपि ऋतवो बहुलपक्षे, ततो नवम ऋतुः शुक्लपक्षे द्वितीयायां दशमश्चतुर्थ्यां एकादशः षष्ट्यां द्वादशोऽष्टम्यां त्रयोदशो दशम्यां चतुर्दशो द्वादश्यां पंचदश चतुर्दश्यां, एते सप्त ऋतवः शुक्लपक्षे, एते कृष्णशुक्लपक्षभाविनः पंचदशापि ऋतवो युगस्याः भवन्ति, तत उक्तक्रमेणैव शेषा अपि