________________
अधिकार तेरमो - नक्षत्र-सूर्य-चंद्रनी गति
२५७ योजनसहस्राणि द्वे शते एकपंचाशदधिके सप्तचत्वारिंशच्च षष्टिभागा योजनस्य ५२५१४७।६०, एतावती द्वितीये मण्डले सूर्यस्य प्रतिमुहूर्तं गतिः, तृतीये मण्डले परिरयपरिमाणं तिस्रो लक्षाः पंचदश सहस्राणि शतमेकं पंचविंशत्यधिकं योजनम् ३१५१२५, एतस्य षष्ट्या भागे हृते लब्धानि द्विपंचाशद् योजनशतानि द्विपंचाशदधिकानि पंच षष्टिभागा योजनस्य ५२५२-५/६०, एतावत्प्रमाणा तृतीये मण्डले प्रतिमुहूर्तं सूर्यस्य गतिः, एवं सर्वाभ्यन्तरान्मण्डलाबहिनिष्क्रामतः सूर्यस्य मण्डले मण्डले गतौ पूर्वपूर्वानन्तरमण्डलविषयगतिपरिमाणापेक्षया किंचिदूना अपि व्यवहारतः परिपूर्णा अष्टादश षष्टिभागाः प्रवर्द्धमानास्तावद्वक्तव्या यावत्सर्वबाह्यं मण्डलं, तस्मिश्च सर्वबाह्ये मण्डले परिरयपरिमाणमिदं-त्रीणि शतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पंचदशोत्तराणि ३१८३१५, तस्य षष्ट्या भागे हृते लब्धानि पंच योजनसहस्राणि त्रीणि शतानि पंचोत्तराणि पंचदश षष्टिभागा योजनस्य ५३०५, १५।६० एतावती सर्वबाह्ये मण्डले सूर्यस्य प्रतिमुहूर्तं गतिः ॥ २५७ ॥ तदेवं सूर्यस्य प्रतिमंडलमुक्तं गतिपरिमाणमिदानीं चन्द्रमसस्तद्विवक्षुः प्रथमतो यावता कालेन भ्रम्या मण्डलं चन्द्रः पूरयति तावत्कालप्रमाणमाह
बावट्ठी पुण रूवा तेवीसं अंसगा य बोद्धव्वा ।
दो चेव एकवीसा छेओ पुण तेसि बोद्धव्वो ॥ २५८ ॥ द्वाषष्टिरूपाणि-द्वाषष्टिसंख्या मुहूर्ताः एकस्य च मुहूर्तस्य त्रयोविंशतिरंशाश्चन्द्रमसस्तत्तन्मण्डलपरिसमाप्तिकालप्रमाणत्वेन ज्ञातव्याः, किंरूपच्छेदकृताः पुनस्ते त्रयोविंशतिरंशाश्चन्द्रमसस्तत्र मण्डल इत्यत आह-छेदः पुनस्तेषामंशानां बोद्धव्यो द्वे शते एकविंशत्यधिके, एतावता कालेन सोमस्तत्तन्मण्डलं भ्रमणेन पूरयति, कथमेतदवसीयते इति चेद् उच्यते, इह युगे सूर्योदयानामष्टादश शतानि त्रिंशदधिकानि १८३० भवन्ति, एतच्च प्रागेवोक्तं, चन्द्रोदयानां सप्तदश शतान्यष्टषष्ट्यधिकानि १७६८, ततोऽत्र त्रैराशिककर्मावकाशो, यदि चन्द्रोदयानां सप्तदशभिः शतैरष्टषष्ट्यधिकैः सूर्योदयानामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन चन्द्रोदयेन किंप्रमाणः कालो लभ्यते?, राशित्रयस्थापना १७६८-१८३०१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशदधिकाष्टादशशतप्रमाणस्य गुणनं, जातान्यष्टादशैव शतानि त्रिंशदधिकानि १८३०, तत्र द्वावपि राशी महान्ताविति द्वयोरपि द्वाभ्यामपवर्तना, तत्रोपरितनो राशिर्जातो नव शतानि पंचदशोत्तराणि ९१५, अघस्तनोऽष्टौ शतानि चतुरशीत्यधिकानि ८८४, ततः सूर्यः किल षष्ट्या मुहूर्तमण्डलं परिसमाप्नोतीति