________________
२३३
अधिकार बारमो - आवृत्ति त्रयोदश, आगतं युगे तृतीयाऽऽवृत्तिः श्रावणे मासे भाविनीनां मध्ये द्वितीया च चतुर्विंशतिपक्षातिक्रमे श्रावणमासे बहुलपक्षत्रयोदशे दिवसे भवतीति, एवमन्यास्वप्यावृत्तीषु करणभावना कार्या ॥ २३९-२४० ॥ सम्प्रति नक्षत्रपरिज्ञानाय करणमभिधित्सुः प्रथमस्तद्विषयं ध्रुवराशिमाह
पंच सया पडिपुन्ना तिसत्तरा नियमसो मुहत्ताणं ।
छत्तीस तीय भागा छच्चेव य चुन्नियाभागा ॥२४१॥ ___पंच शतानि 'त्रिसप्ततानि' त्रिसप्तत्यधिकानि परिपूर्णानि मुहूर्त्तानि मुहूर्तानां भवन्ति षट्त्रिंशच्च द्वाषष्टिभागाः षट् चैव चूर्णिकाभागाः, एकस्य द्वाषष्टिभागस्य सत्काः षट् सप्तषष्टिभागा इत्यर्थः, एष वक्ष्यमाणकरणे ध्रुवराशिः, कथमेतस्योत्पत्तिः ? इति चेद्, उच्यते, इह यदि दशभिः सूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन सूर्यायनेन किं लभामहे ? राशित्रयस्थापना १०६७।१, अत्रान्त्येन राशिना एककेन मध्यमस्य राशेः सप्तषष्टिलक्षणस्य गुणनं क्रियते, एकेन च गुणितं तदेव भवतीति जाता सप्तषष्टिः ६७, तस्य दशभिर्भागहारे लब्धाः षट् पर्यायाः, एकस्य च पर्यायस्य सप्त दशभागाः, ये च सप्तमस्य पर्यायस्य सप्त दशभागास्तद्गतमुहूर्तप्रमाणमधिकृतगाथायामुपन्यस्तम् । अथ कथमेतदवसीयते एतावन्तस्तत्र मुहूर्त्ता भवन्ति ? उच्यते, त्रैराशिककर्मावतारबलात्, तथाहियदि दशभिर्भागैः सप्तविंशतिर्दिनानि एकस्य च दिनस्यैकविंशतिः सप्तषष्टिभागा लभ्यन्ते ततः सप्तभिर्भागः किं लभामहे ?, राशित्रयस्थापना - १०-२७,२१।६७-७, अत्रान्त्येन राशिना सप्तकलक्षणेन मध्यस्य राशेः सप्तविंशतिर्दिनानि गुण्यन्ते, जातं नवाशीत्यधिकं शतं १८९, तस्याद्येन राशिना दशकलक्षणेन भागे हृते लब्धा अष्टादश दिवसाः, ते च मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जातानि पंच शतानि चत्वारिंशदधिकानि मुहूर्तानां, शेषा उपरि तिष्ठन्ति नव, ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जाते द्वे शते सप्तत्यधिके २७०, तयोर्दशभिर्भागे हृते लब्धाः सप्तविंशतिर्मुहूर्ताः २७, ते पूर्वस्मिन् मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि पंच शतानि सप्तषष्ट्यधिकानि ५६७, येऽपि चैकविंशतिः सप्तषष्टिभागा दिनस्य तेऽपि मुहूर्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तानि सप्तभिर्गुण्यन्ते जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि ४४१०, तेषां दशभिर्भागे हृते लब्धानि चत्वारि शतानि एकचत्वारिंशदधिकानि ४४१, तेषां सप्तषष्ट्या भागे हृते लब्धाः १. 'छत्तीस बिसठ्ठी (तीय)' इति मुद्रितादर्श ।