________________
अधिकार अगियारमो
- अयन प्रमाण
चंदायणस्स करणं पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं तं बावट्टी भागपरिहीणं ॥ २२७ ॥ नक्खत्तअद्धमासेण भइए लद्धं तु रूवमाएज्जा । जह लद्धं हवइ समं नायव्वं दक्खिणं अयणं ॥ २२८ ॥
अह हवइ भागलद्धं विसमं जाणाहि उत्तरं अयणं । सेसाणं अंसाणं ससिस्स इणमो भवे करणं ॥ २२९ ॥
सत्तट्ठीए विभत्ते जं लद्धं तइ हवंति दिवसा उ ।
अंसा य दिवसभागा पवत्तमाणस्स अयणस्स ॥ २३० ॥
२२३
चन्द्रगतस्य दक्षिणस्योत्तरस्य वाऽयनस्य परिज्ञानाय करणमिदं, यानि युगमध्ये पर्वाण्यतिक्रान्तानि तत्पर्वसङ्ख्यानं पंचदशभिर्गुण्यते, ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्तास्तत्र प्रक्षिप्यन्ते, ततो द्वाषष्टिभागपरिहीनं-अवमरात्रपरिहीनं क्रियते, ततो नक्षत्रस्यार्द्धमासेन तस्मिन् भक्ते सति यल्लब्धमेकद्वित्र्यादिरूपं तदादेयात् पृथक्स्थाने स्थापयेदित्यर्थः तत्र यदि लब्धं भवति समं तदा दक्षिणं चन्द्रायणमनन्तरमतीतमवसेयम्, अथ भवति भागलब्धं विषमं तदोत्तरं चन्द्रायणमनन्तरमतीतं जानीहि इह युगस्यादौ प्रथमतश्चन्द्रायणमुत्तरं ततो दक्षिणायनमतोऽत्र समे भागे दक्षिणायनमनन्तरमतीतमवसेयं, विषमे लब्धे उत्तरायणमिति, शेषास्त्वंशा ये उद्धरितास्तेषामंशानां राशिन:- चन्द्रस्य चन्द्रायणस्येत्यर्थः इदं भवति करणं, तदेवाह - 'सत्तट्ठीए' इत्यादि, तेषामंशानां सप्तषष्ट्या विभक्ते सति यल्लब्धं तति प्रवर्त्तमानस्यायनस्य भवन्ति दिवसाः, तत्राप्युद्धरिता दिवसभागा ज्ञातव्याः, तथाहि युगमध्ये नवमासातिक्रमे पंचम्यां केनापि पृष्टं - किं चन्द्रायणमनन्तरमतीतं ? किं वा साम्प्रतमुत्तरं दक्षिणं वा वर्त्तते ?, तत्र नवसु मासेषु पर्वाण्यष्टादश, ततोऽष्टादश पंचदशभिर्गुण्यन्ते, जाते द्वे शते सप्तत्यधिके २७०, नवानां च मासानामुपरि पंचम्यां पृष्टमिति पंच तत्र प्रक्षिप्यन्ते, जाते द्वे शते (पंच) सप्तत्यधिके २७५, नवसु च मासेषु चत्वारोऽवमरात्रास्ते ततोऽपनीयन्ते, जाते द्वे शते एकसप्तत्यधिके २७१, एतस्य राशेर्नक्षत्रमासार्द्धेन भागहरणं, तत्र नक्षत्रार्द्धमासो न परिपूर्णः, किन्तु कतिपयसप्तषष्टिभागाधिकस्तत सर्वोऽप्यवमरात्रशुद्धः सप्तषष्ट्या गुण्यते, जातान्यष्टादश सहस्राणि शतमेकं [ सप्त ] पंचाशदधिकं १८१५७, नक्षत्रार्द्धमासस्य च दिवसपरिमाणं त्रयोदश दिवसा एकस्य च