SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अधिकार दसमो मंडल विभाग नव छच्छप्पण्णेगं एक्कावीसं च तिण्णि 틀 चोत्तालीसं तिगहिय ँ तेत्तीसा चेव तेत्तीसा ૧ ૧ चउयाला चउइगवीसं तिच्छप्पण्ण एग ૧ ६ ৩ 3 ૧૦ ૧ बोद्धव्वा । ॥ २१० ॥ ૧૦ नव च्छक्कं I ૨ २०१ पंचमाच्चन्द्रमण्डलात्परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं तच्च पंचत्रिंशत् योजनानि त्रिंशच्चैकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र पंचत्रिंशत् योजनानि एकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातान्येकविंशतिः शतानि पंचषष्ट्यधिकानि २१६५, येऽपि च पंचमस्य चन्द्रमण्डलस्य सूर्यमण्डलाद्बहिर्विनिर्गताश्चतुष्पंचाशदेकषष्टिभागाः द्वौ चैकस्यैकषष्टिभागस्य सत्कौ सप्तभागौ तेऽत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिः शतान्येकोनविंशत्यधिकानि, एकस्य चैकषष्टिभागस्य सत्काः षट् सप्तभागाः २२१९, ६।७, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागाधिके, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशं शतमेकषष्टिभागानां तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं १७०, तेन पूर्वराशेर्भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव एकस्य चैकषष्टिभागस्य सत्काः षट् सप्तभागाः तत इदमागतं पंचमाच्चन्द्रमण्डलात्परतस्त्रयोदश सूर्यमार्गाः, त्रयोदशस्य च सूर्यमार्गस्योपरि षष्ठाच्चद्रमण्डलादर्वागन्तरं नव एकषष्टिभागा एकषष्टिभागस्य एकस्य च सत्काः षट् सप्तभागाः, ततः परत: षष्ठं चन्द्रमण्डलं, ं तच्च षट्पंचाशदेकषष्टिभागात्मकं, ततः परतः सूर्यमण्डलादर्वागन्तरे ‘छप्पण्णेग’त्ति षट्पंचाशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य एकः सप्तभागस्तदनन्तरं सूर्यमण्डलम् तस्माच्च परत एकषष्टिभागानां चतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्केन सप्तभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यत इति, एतस्मात्सूर्यमण्डलात्परतोऽन्ये द्वादश सूर्यमार्गा लभ्यन्ते, ततः सर्वसंकलनया तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि सप्तमाच्चन्द्रमण्डलादर्वागन्तरमेकविंशतिरेकषष्टिभागाः एकस्य चैकषष्टिभागस्य त्रयः सप्तभागास्ततः सप्तमं चन्द्रमण्डलं ु, तस्माच्च सप्तमाच्चन्द्रमण्डलात्परतश्चतुश्चत्वारिंशता एकषष्टिभागैरेकस्य चैकषष्टिभागस्य सत्कैश्चतुर्भिः ૨
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy