________________
ज्योतिष्करण्डकम्
सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७, शेषमुपरिष्टादिदमुद्वरति - चतस्त्रो लक्षाश्चतुरशीतिः सहस्राणि चत्वारि शतान्येकसप्तत्यधिकानि ४८४४७१, एतानि योजनं च चतुर्भिर्गुव्यूतैर्भवति ततो गव्यूतानयनार्थमेष राशिश्चतुर्भिर्गुण्यते, जातान्येकोनविंशतिर्लक्षाणि सप्तत्रिंशत्सहस्राणि अष्टौ शतानि चतुरशीत्यधिकानि १९३७८८४, छेदराशि: स एव प्राक्तनो, नवरमन्त्यमपि सप्तकरूपमंकस्थानं द्विगुणीक्रियते, तत एवंरूपो भवति - षड्लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि चतुष्पंचाशदधिकानि ६३२४५४, अनेनोपरितनराशेर्भागो हियते, लब्धं क्रोशत्रितयं, शेषमुपरिष्टादिदमुद्वरति - चत्वारिंशत्सहस्राणि पंच शतानि द्वाविंशत्यधिकानि ४०५२२, अमूनि गव्यूतानि गव्यूतं च धनुषां सहस्रद्वयेन भवति, ततो धनुरानयनार्थमयं राशि: सहस्रद्वयेन गुण्यते, जाता अष्टौ कोटयो दश लक्षाश्चतुश्चत्वारिंशत्सहस्राणि ८१०४४०००, छेदराशि: प्राक्तन एव, ततो लब्धमष्टाविंशं धनुः शतं १२८, शेषमुपरिष्टादिदमुद्धरति - एकोननवतिः सहस्राणि अष्टौ शतानि अष्टाशीत्यधिकानि ८९८८८, एतानि च धनूंषि, धनुश्च षण्णवत्यंगुलं, ततोऽयं राशिरंगुलानयनाय षण्णवत्या गुण्यते, जातानि षडशीतिर्लक्षाणि एकोनत्रिंशत्सहस्राणि द्वे शते अष्टचत्वारिंशदधिके ८३२९२४८, छेदराशि: स एव, ततो लब्धानि त्रयोदशांगुलानि शेषमुपरिष्टादिदं चतस्त्रो लक्षाः सप्त सहस्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि ४०७३४६, अयं राशिरर्द्धांगुलानयनार्थमर्द्धक्रियते, जाता अष्टौ लक्षाश्चतुर्दश सहस्राणि षट् शतानि द्विनवत्यधिकानि ८१४६९२, छेदराशि: स एव, लब्धमेकमर्द्धांगुलं, शेषमुद्धरति - एको लक्षो द्वयशीतिः सहस्राणि द्वे शते अष्टात्रिंशदधिके १८२२३८, एष जम्बूद्वीपपरिधिः ॥ १८५ ॥ तथा चाह
१७०
जंबुद्दीवपरिरओ तिन्नि य सोलाणि सयसहस्साणि ।
बेय सया पडिपुण्णा सत्तावीसा समहिया य ॥ १८६ ॥
तिणि य कोसा य तहा अट्ठावीसं च धणुसयं एक्कं । तेरस य अंगुलाई अद्धंगुलयं च सविसेसं ॥ १८७ ॥
इदं गाथाद्वयमपि सुगमं । सम्प्रति गणितपदमानीयते, तत्र जम्बूद्वीपस्य विष्कम्भो योजनशतसहस्रं, तस्य पाद:-चतुर्थांशः पंचविंशतिः सहस्राणि तेन समस्तोऽपि जम्बूद्वीपपरिरयो गुण्यते, तत्र परिरययोजनास्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके इत्येवंरूपः पंचविंशतिसहस्रैर्गुण्यते, गुणितश्च सन् एतावान् भवति -
१. एतद् १८६-१९८७ गाथाद्वयं टीकावर्ति इति पु. प्रे. पार्श्वभागे ॥