________________
१५४
ज्योतिष्करण्डकम्
नक्षत्राणां-अर्धक्षेत्रादीनां यावत्प्रमाणो योगः स सप्तषष्ट्या 'नियमात्' निश्चयेन प्रत्युत्पद्यत इत्यर्थः, तस्मिश्चन्द्रनक्षत्रयोगे सप्तषष्ट्या प्रत्युत्पन्ने 'पंचाशेन' पंचाशदधिकेन शतेन 'भजेत्' भागहारं कुर्यात्, भागे हृते यल्लब्धं स तावत्कालप्रमाणः सूर्यस्य योगः । इयमत्र भावना-कोऽपि पृच्छति-यस्मिन् नक्षत्रे पंचदश मुहूर्तानवतिष्ठते चन्द्रस्तत्र सूर्यः कियन्तं कालमवस्थानं करोति ? तत्र पंचदश सप्तषष्ट्या गुण्यन्ते, जातं पंचोत्तरं सहस्रं १००५, तस्य पंचाशदधिकेन शतेन भागो हियते, लब्धाः षड् अहोरात्राः, शेषं तिष्ठति पंचोत्तरं शतं, ततो मुहू नयनाय छेदराशेः पंचाशदधिकशतरूपस्य त्रिंशता भागहरणं, लब्धाः पंच, तैः पंचोत्तरशतस्य भागे हृते लब्धा एकविंशतिर्मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं सूर्येण समं योगः, तथा समक्षेत्राणां त्रिंशन्मुहूर्ताश्चन्द्रयोगप्रमाणं, ततस्त्रिंशत् सप्तषष्ट्या गुण्यते, जाते द्वे सहस्र दशोत्तरे २०१०, तेषां पंचाशदधिकेन शतेन भागो हियते, लब्धास्त्रयोदशाहोरात्राः, शेषास्तिष्ठन्ति षष्टिः, ततो मुहूर्त्तानयनाय छेदराशेस्त्रिंशता भागहरणं, स्थिताः पंच, तैः षष्टेर्भागो हियते, लब्धा द्वादश मुहूर्ताः एतावान् समक्षेत्राणां प्रत्येकं सूर्येण सह योगः, तथा द्वयर्द्धक्षेत्राणां पंचचत्वारिंशन्मूहूर्ताश्चन्द्रयोगः, पंचचत्वारिंशत् सप्तषष्ट्या गुण्यते, जातानि त्रीणि सहस्राणि पंचदशोत्तराणि ३०१५, तेषां पंचाशदधिकेन शतेन भागो ह्रियते, लब्धा विंशतिरहोरात्राः, शेषास्तिष्ठन्ति पंचदश, ततो मुहूर्त्तानयनाय छेदराशेस्त्रिंशता भागहरणं, स्थिताः पंच, तैः पंचदशानां भागे हृते लब्धास्त्रयो मुहूर्ताः एतावानेव द्वयर्द्धक्षेत्राणां प्रत्येकं सूर्येण समं योगः ॥ १७१ ॥ साम्प्रतं यथा सूर्ययोगपरिमाणदर्शनतश्चन्द्रयोगपरिमाणं परि ज्ञातं भवति तथा प्रतिपादयति
ગાથાર્થ - ચંદ્ર-નક્ષત્ર યોગને નિયમો સડસઠ સાથે સ્વીકારતા ૧૫૦થી ભાગ भापता १०५ छ ते. सूर्यनो योग छ. ॥ १७१ ॥
ટીકાર્ય - અર્ધક્ષેત્રાદિ નક્ષત્રોનો જેટલો યોગ છે તે નિયમ ૬૭થી મનાય છે તે ચંદ્ર-નક્ષત્રનો યોગ ૬૭થી માનતા ૧૫૦થી ભાગાકાર કરવો. તે રીતે જે પ્રાપ્ત થયું. તે તેટલો કાલ પ્રમાણ સૂર્યનો યોગ છે. ભાવના - કોઈ પૂછે કે જે નક્ષત્રમાં ૧૫ મુહૂર્તો ચન્દ્ર રહે છે ત્યાં સૂર્ય કેટલો કાળ રહે છે? ત્યાં ૧૫ને ૬૭થી ગુણવા એટલે ૧૦૦૫ થયા. તેનો ૧૫૦થી ભાગ કરતાં ૬ દિવસો આવ્યા. શેષ ૧૦૫ બચ્યા. પછી, મુહૂર્ત