________________
११२
ज्योतिष्करण्डकम्
ચંદ્રો અને સૂર્યો' એમ ચંદ્રપ્રમાણ સંખ્યાવાળા સૂર્યો કહેલા હોવાથી સર્વત્ર ન કહેલા પણ ચંદ્રતુલ્ય સૂર્યો માનવા, એટલો આ જંબૂદ્વીપમાં ફક્ત બે ચંદ્રો જ નહિ પરંતુ સૂર્ય પણ બે છે. તથા ચાર ચંદ્રો અને સૂર્યો લવણોદધિ સમુદ્રમાં છે, ઘાતકીખંડમાં બાર ચંદ્રો અને બાર સૂર્યો છે. હવે, કાલોદધિ સમુદ્રાદિમાં ચંદ્ર-સૂર્યનાં પ્રમાણ લાવવા માટે કરણ બતાવે છે
धायइंसडप्पभिइ उद्दिट्टा तिगुणिया भवे चंदा । आइल्लचंदसहिया तइ होंति अणंतरे परतो ॥ १२१ ॥ आइच्चाणंपि भवे एसेव विही अणूणगो सव्वो ।
दीवेसु समुद्देसु य धायइसंडेहिं जे परतो ॥ १२२ ॥ घातकीखण्डप्रभृतयः-तेषु धातकीखण्डप्रभृतिषु द्वीपसमुद्रेषु ये उद्दिष्टाश्चन्द्रास्ते त्रिगुणा:-त्रिगुणीकृताःसन्तः 'आइल्लचंदसहिय'त्ति जम्बूद्वीपमादिं कृत्वा ये उद्दिष्टेभ्यः प्राक्तनाश्चन्द्रास्तैः सहिता यति भवन्ति तति-तावत्प्रमाणास्तस्माद् द्वीपात्समुद्राद्वा परतोऽनन्तरे द्वीपे समुद्रे वा भवन्ति, तत्र घातकीखण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षट्त्रिंशत्, आदिमाश्चन्द्राः षट्, तद्यथाद्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रैः सहिता जाता द्विचत्वारिंशत्, एतावन्तः कालोदसमुद्रे चन्द्राः, तथा कालोदसमुद्रे द्विचत्वारिंशच्चन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं षड्विंशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे, एतैरादिमचन्द्रैः षड्विंशं शतं जातं चतुश्चत्वारिंशं शतं, तथा चोक्तं जीवाभिगमादौ'पुक्खरवरे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा ? गोयमा ! चोयालं चंदसयं पभासिंसु वा पभासंति वा पभासिस्संति वा, चोयालं सूरियाण सयं तविंसु वा तिर्विति वा तविस्संति वा, चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोगं जोइंसु वा जोइंति वा जोइस्संति वा, बारस सहस्साई छच्च बावत्तरा महग्गहसया चारं चरिंसु वा चरंति वा चरिस्संति वा, छन्नई सयसहस्साई चोयालीसं सहस्साई चत्तारि य सयाई ताव तारागणकोडिकोडीणं सोभिंसु वा सोभंति वा सोभिस्संति वा" इति, एवं शेषेष्वपि द्वीपसमुद्रेष्वेतत्करणवशाच्चन्द्रसंख्या प्रतिपत्तव्या ॥ १२१ ॥ धातकीखण्डात्परतो ये द्वीपाः समुद्रा वा तेषु द्वीपेषु समुद्रेषु चैष एव-अनन्तरोदितचन्द्रसंख्यानयनविषयो विधिरन्यूनः सर्वः-समस्त