________________
અધિકાર-૫ : અવમરાત્રિ
तदेवमुक्तं चतुर्थं प्राभृतं, साम्प्रतमवमरात्रप्रतिपादकं पञ्चमं प्राभृतमभिधित्सुराह
एसा तिहिनिप्फत्ती भणिया मे वित्थरं पयहिऊणं । वोच्छामि ओमरत्तिं उल्लिंगन्तो समासेणं ॥ १०७ ॥ कालस्स न वि हाणी नवि वुड्डी अवढिओ सया कालो । जायइ वड्डोवड्डी मासाणं एक्कमेक्काओ ॥ १०८ ॥ चंदउडूमासाणं अंसा जे दिस्सए विसेसम्मि । ते ओमरत्तभागा भवंति मासस्स नायव्वा ॥ १०९ ॥ बावट्ठिभागमेगं दिवसे संजाइ ओमरत्तस्स ।
बावट्ठीए दिवसेहि ओमरत्तं तओ भवइ ॥ ११० ॥ 'एषा' अनन्तरोदितस्वरूपा तिथिनिष्पत्तिर्मया विस्तरं 'प्रहाय' परिहत्य 'भणिता' प्रतिपादिता, सम्प्रति 'समासेन' संक्षेपेण 'उल्लिंगन्' किंचिन्मात्रतया प्रतिपादयन् अवमरात्रान् वक्ष्यामि ॥ १०७ ॥ ननु कालः सर्वदाऽनादिप्रवाहपतिततया प्रतिनियतस्वभाव एव परावर्त्तते न तस्य काऽपि हानिर्नापि कश्चिदपि स्वरूपोपचयः, ततः कथमवमरात्रतासम्भवः ? इत्यत आह-'कालस्य' सूर्यादिक्रियोपलक्षितस्यानादिप्रवाहपतितप्रतिनियतस्वभावस्य न स्वरूपतो हानिर्नापि कश्चिदपि स्वरूपोपचयः, किन्तु सदा तथाजगत्स्वाभाव्यादवस्थित एव तथा प्रतिनियतरूपतयाऽयं कालः, केवलं ये जायतेजायमाने प्रतीयेते वृद्धापवृद्धी मासानां ते 'एकमेकस्मात्' एकस्य-अन्यतरस्य, सूत्रे द्वितीया प्राकृतत्वात्, भवति हि प्राकृतलक्षणवशाद् व्यत्ययः स्यादिविभक्तीनां, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासा".