________________
અધિકાર ત્રીજો - અધિકમાસની નિષ્પત્તિ.
उक्तं द्वितीयं प्राभृतं, साम्प्रतमेतदनन्तरोद्दिष्टं तृतीयप्राभृतभणनार्थमुपक्षेपं करोतिएत्तो उ अहिगमासगनिष्फत्तिं मे निसामेहि ॥ ९१ ॥ चंदस्स जो विसेसो आइच्चस्स य हवेज्ज मासस्स । तीसइगुणिओ संतो हवइ अहिमासगो एक्को ॥ ९२ ॥ सट्ठीए अइयाए हवइ हु अहिगमासगो जुगलुमि । बावीसे पव्वसए हवई बिइओ जुगंतमि ॥ ९३ ॥
मासविसेसुप्पण्णा निप्फत्ती अहिगमासगस्सेसा । 'इतः' मानार्थाधिकारयुक्तद्वितीयप्राभृतभणनादनन्तरमधिकमासनिष्पत्तिं यथागमं मे प्रतिपादयतो 'निशमय' आकर्णय ॥ ९१ ॥ इह प्राग् युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धितरूपसंवत्सरपञ्चकात्मकं व्यावर्णितं, तत्र तृतीयेऽभिवर्द्धिताख्ये संवत्सरे पञ्चमे वाऽभिवर्द्धिताख्ये संवत्सरे प्रत्येकमधिकमासो भवति, यतो युगं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनानतिरिक्तानि पञ्च वर्षाणि भवंति, सूर्यमासश्च सार्द्धात्रिंशदहोरात्रप्रमाण: चन्द्रमास एकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, ततः सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा प्रतिपादयति 'आदित्यस्य' आदित्यसंवत्सरसम्बन्धिनो मासस्य मध्यात् 'चन्द्रस्य' चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितःसन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात्सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा इत्येवंरूपं शोध्यते, ततः स्थितं पश्चाद्दिनमेकमेकेन