________________
अधिकार बीजो - घटिकादिनुं प्रमाण
एकाहियबेहियतेहियाण उक्कोस सत्तरत्ताणं । सम्मटुं सन्निचियं भरियं वालग्गकोडीणं ॥ ७९ ॥ ओगाहणाउ तेसिं अंगुलभागो भवे असंखेज्जा। एवं लोमपमाणं एत्तो वोच्छामि अवहारं ॥ ८० ॥ वाससए वाससए एक्कक्के अवहियंमि जो कालो ।
सो कालो नायव्वो उवमा एक्कस्स पल्लस्स ॥ ८१ ॥ तद्-अनन्तरोदितप्रमाणं पल्यमेकाहिकव्याहिकत्र्याहिकाणां-मुण्डिते शिरसि या एकेनाह्रा प्ररूढास्ता एकाहिकाः या द्वाभ्यामहोभ्यां ता व्याहिकाः यास्त्रिभिरहोभिस्तास्त्र्याहिकास्तासामुत्कर्षतः 'सप्तरात्राणां' सप्ताहोरात्रप्ररूढपर्यन्तानां वालाग्रकोटीनां भूतं, कथंभूतम् ? इत्याह-संमृष्टम्-आकर्णभृतं 'सन्निचितं प्रचयविशेषापादनेनातिनिविड(डि ?) मानमापादितं, तत्रेत्थं निविड(डि ?)मानमापादितं यथा तानि वालाग्राणि न वायुरपहरति नापि वह्निस्तानि दहति नापि तेषु सलिलं प्रविश्य कोथमापादयति, यथा चात्रार्थेऽनुयोगद्वारसूत्रं[सूत्र १३८] "से णं पल्ले एगाहियबेहियतेहियाणं उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्टे सन्निचिए भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरिज्जा नो कुच्छेज्जा" इत्यादि ॥ ७९ ॥ इह पल्योपमं त्रिधा भवति, तद्यथा-उद्धारपल्योपममद्धापल्योपमं क्षेत्रपल्योपमं, एकैकं द्विधा, तद्यथा-व्यावहारिकं सूक्ष्मं च, तत्र व्यावहारिकं सर्वमपि प्ररूपणामात्रं, न तेन किंचिदपि प्रयोजनं, उद्धारपल्योपमक्षेत्रपल्योपमाभ्यामपि कालप्रमाणचिन्तायामिह न किमपि प्रयोजनमतो न ताभ्यामधिकारः, ततः सूक्ष्माद्धापल्योपमनिरूपणार्थं वालाग्राणामसङ्ख्येयखण्डनिर्देशार्थमाह-'ओगाहे' त्यादि, इह यानि प्राग् मुण्डिते शिरस्येकाहिकानि व्याहिकानि व्याहिकानीति यावदुत्कर्षतः सप्ताहिकानि वालाग्राणि बुद्ध्या गृहीत्वा पल्यं भृतं तेषां वालाग्राणां सम्बन्ध्येकैकं वालाग्रमसंख्येयानि खण्डानि क्रियते, किंप्रमाणमसंख्येयं खण्डमिति चेदुच्यते-इह विशुद्धलोचनश्छद्मस्थः पुरुषो यदतीवसूक्ष्मं द्रव्यं चक्षुषा पश्यति तदसंख्येयभागमात्रमसंख्येयं खण्डम्, इदं द्रव्यतोऽसंख्येयस्य खंडस्य प्रमाणं, क्षेत्रतः पुनरिदंसूक्ष्मस्य पनकजीवस्य या जधन्यावगाहना तया यद् व्याप्तं क्षेत्रं तदसंख्येयगुणक्षेत्रावगाहिद्रव्यप्रमाणमसंख्येयं खण्डं, तथा चात्रार्थेऽनुयोगद्वारसूत्र-[सूत्र १३४] "तत्थ णं एगमेगे वालग्गे असंखेज्जाई