SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [ कूपदृष्टान्तविघ्न जयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टक ज्वर-मोहजयसमः प्रवृत्तिफलः ॥ ४ ॥ सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्विको ज्ञेया। अधिके विनयादियुता, हीने च दयादिगुणसारा ॥५॥ सिद्धेश्चोत्तरकार्य, विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ॥ ६ ।। आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽनुमन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा" ॥७॥ इति ॥ न च सर्वापि जिन पूजा प्राधान्येनेव द्रव्यरूपा, अपूर्वत्वप्रतिसन्धानविस्मयभवभयादिवृद्धिभावाऽभावाभ्यां द्रव्यभावेतरविशेषस्य तत्र तत्र प्रतिपादनात् ॥ यत्तु प्रणिधानादि अन्ते चैत्यवन्दनान्ते प्रोक्तं, तद्भिन्नविशिष्टतरं, पूर्व तु सामान्यं, सर्वक्रियासामान्ये भावत्वाऽऽपादकमिति भावः। कथमन्ते प्रणिधानादिभिन्न मिति चेदत्राहुः - 'एयस्स समत्तीए कुसलं पणिहाणमो उ कायव्वं । एत्तो पवित्तिविग्ध जयसिद्धि तहय स्थिरीकरणं-" (पू.पं० २९) एतस्य चैत्यवन्दनस्य समाप्तौ कुशलं शुभं, प्रणिधानं =प्रार्थनागतमेकाग्र्यम्, उ इति निपातः पादपूरणे, कर्तव्यं = विधेयं, यस्मादितः
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy