________________
પ્રશ્નોત્તરસાર્ધશતક ગુજરાતી અનુવાદ
१७७
आदिमदेव युज्यते श्रुतमपि, नाऽनादिमदिति कथं तृतीय चतुर्थभङ्ग संभवः ? ( अनादिशान्तम् अनाद्यनन्तम् )
अत आह-"सव्यजीवाणं पि" इत्यादि सर्वजीवाना मिति णमिति वाक्यालंकारेऽक्षरस्य श्रुतज्ञानस्य, श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मनिज्ञानस्यापि अनन्तभागो अनन्ततमो भागो नित्योद्घाटितः सर्वदेवाऽप्रावृत्तः, सोऽपि च अनन्तमो भागो अनेकविधस्तत्र सर्वजघन्य चैतन्यमानं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानदिनिद्रोदयभावेऽपिनात्रियते तथा जीवस्वभावात् । तथा च आह "जईत्यादि" यदि पुनः सोऽपि अनन्ततमो भागोऽपि आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयाद्, जीवो हि चैतन्यलक्षणः ततो यदि प्रबलश्रुतावरणस्त्थानद्धिनिद्रो दयभावे चैतन्यमात्रमपि आवियते तर्हि जीवस्य स्वभाव परित्यागेन अजीवतैव संपनीपयेत न चतद् दृष्टमिष्टं वा सर्वस्य सर्वदा स्व स्वभावाsतिरस्कारात्" तत्रैव दृष्टान्तमाह "सदुवीत्यादि " सुष्टु अपि मेघसमुदये भवति प्रभाचंद्रसूर्ययोः इयमत्र भावना यथा निबिडनिबिडतरमेघपटलैराच्छादितयोः सूर्यचन्द्रमसोनैकान्तेन तत्प्रभानाशः संपद्यते. सर्वस्य सर्वथा स्वभावापनयस्य कर्तुम् अशक्यत्वात् , एवम् अनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्याऽपि ૧૨