________________
प्रमोद भावना.
राग भैरवी । ताल - त्रिताल |
सद्गुणपाने संसक्तं मे मनः ॥ ध्रुवपदम् ॥ धन्या व भगवन्तोऽर्हन्तः ।
क्षीणसकलकर्माणः || केवलज्ञानविभतिवरिष्ठाः । प्राप्ताखिलशर्माणः ॥ सद्गुण ॥ १ ॥ धन्या धर्मधुरन्धरमुनयः । गृहीतमहाव्रतभाराः || ध्यानसमाधिनिमनमानसाः ।
त्यक्तजगद्वयवहाराः ॥ सद्गुण ॥ २ ॥ सेवाधर्मरता गतस्वार्थाः ।
अभ्युदयं कुर्वन्तः ॥
धन्यास्तेपि समाजनायकाः ।
न्याय्यपथे विहरन्तः ॥ सद्गुण ॥ ३ ॥