________________
श्रीपञ्चसप्ततिशतस्थानचतुष्पदी. कर्मभारैर्भरश्रान्तान् , जनानिर्वाहयन्नसौ ।
मोक्षाऽध्वनि श्रिये मेऽस्तु, तीर्थकृषभाननः॥९॥ अनन्तभ्रमतप्तानां, स्याद्वादामृतसन्निभा ।
अर्हदनन्तवीर्यस्य, गीर्जयति जगत्त्रये ॥१०॥ मिथ्यात्वध्वान्तनाशाय, राजतीव दिवामणिः ।
अर्हन् सूरप्रभुः श्रीमान् , भविनां श्रेयसेऽस्तु नः।११॥ विशालकीर्तिभूल्लोके, श्रीविशालो जिनेश्वरः ।
विशालज्ञानदो मेऽस्तु, भवसन्ततिवारकः ॥१२॥ कर्मपर्वतभेदार्थ, तपोवज्रः करे धृतः।
श्रीवज्रन्धरजैनेन्द्रो, भूयात्पापार्तिवारकः ॥१३॥ भव्यहत्कञ्जबोधाय, नूतनोदयचन्द्रमाः।
जीयाच्छीधातकीखण्डे, श्रीचन्द्राननजैनपैः ॥१४॥ चतुर्धाऽमलवाक्येनाऽनेकान्तमतधारिणे ।
नतेन्द्रोष्णीषपादाय, नमः श्रीचन्द्रबाहवे ॥१५॥ मूढा मतान्तरे लोका, वदन्ति स्त्रीविलासिनम् ।
ईश्वरं हदि मे नैवाऽन्यदीश्वराहतं विना ॥१६॥ भुजङ्गस्वामिनः कीर्तिहंसीव स्वर्णदीतटे ।
क्रीडाकलरवे मत्ताऽन्यभवे बोधिदाऽस्तु मे ॥ १७ ॥ आर्तिगर्तगतान् भव्या-नाकर्षन्तं जिनाधिपम् । कन्तुप्रपञ्चनिर्मुक्तं, स्तुवे नेमिप्रभुं सदा ॥१८॥