________________
प्रभुश्रीमद्विजयराजेन्द्रसूरीश्वर-सङ्कलितश्रीविंशतिविहरमाणजिन-स्तवः ।
सकलैश्वर्यवस्थानमास्थानं श्रेयसः शुभम् ।
प्रभूतपुण्यसंसक्तमार्हन्त्यं समुपास्महे ॥१॥ सुप्रतीतश्चतुर्भिश्च, निक्षेपैः पुनतो जिनान् ।
विश्वलोकं सदात्मानं, त्रिकालं प्रणमाम्यहम् ॥ २॥ अज्ञानतिमिरान्धाग्राह्यो निष्परिग्रहः ।
भवभीनाशकृन्मेऽस्तु, श्रीमत्सीमन्धरैः प्रभुः ॥३॥ शुक्लोपलेव गीर्याऽस्ति, ज्ञानामकृतिनां समा।
श्रीयुगमन्धरस्याऽति, सा सदा शिवदाऽस्तु मे ॥४॥ भवाब्धेर्भव्यजन्तून् सः, बाहुभ्यामुद्धरन्निव ।
श्रीबाहुभगवाञ्छास्ता, भूयान्मे केवलप्रदः ॥५॥ सर्वेषामुपकाराय, तीर्थकुन्नाम संवहन् ।
सुंबाह्रर्हन् विदेहेऽस्मि-अम्बूद्वीपे सुखप्रदः ॥६॥ देशनावसरे सम्यक्, तचाप्तिादृशी सताम् ।
श्रीसुजाताऽऽसतो जाता, भूयान्ममापि तादृशी॥७॥ श्रेयोवल्ली नवाम्भोदः, श्रीस्वयम्प्रर्भ ईश्वरः । नवीनश्रीप्रदाता मे, भन्यानां भयहानिकृत् ॥८॥