________________
છે? (અર્થાતુ કોઈ નથી.) કારણ કે પ્રમાણના નિશ્ચય વિના જો પ્રમાણલક્ષણનો વિનિશ્ચય થાય છે તો પ્રમાણલક્ષણના વિનિશ્ચય વિના પણ વિષય(ધર્મસાધનાદિ)નો વિનિશ્ચય થઈ જ જશે. તેથી પ્રમાણનો નિર્ણય કર્યા વિના પ્રમાણના લક્ષણનું નિર્વચન કરવું તે બુદ્ધિનું આંધળાપણું છે. આ રીતે અષ્ટકપ્રકરણમાં પ્રમાણલક્ષણાદિનો ઉપયોગ નથી' – આ વાતનું સમર્થન કરાયું छ. मा वातनी ४ दृढतानुं संपाइन ४२१. सोभा 'यतः' मा पर्नु उपाहान छ. तनो अर्थ એ છે કે ઉપર જણાવ્યા મુજબ ધર્મસાધનભૂત અહિંસાદિની વિચારણા માટે પ્રમાણલક્ષણાદિનો કોઈ ઉપયોગ ન હોવાથી શ્રી સિદ્ધસેન દિવાકરસૂરિજીએ પણ આ પ્રમાણે કહ્યું છે. (જે આગળના सोथी ४९॥वाय छे.) ॥८-११॥ શ્રી સિદ્ધસેન દિવાકરસૂરિજીએ જે જણાવ્યું છે તે જણાવાય છે
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥८-१२॥
प्रसिद्धानीति-प्रसिद्धानि लोके स्वत एव रूढानि, न तु प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि । प्रमाणानि प्रत्यक्षादीनि । तथा व्यवहरणं व्यवहारः नानपानदहनपचनादिका क्रिया । चशब्दः प्रसिद्धत्वसमुच्चयार्थः । तत्कृतः प्रमाणप्रसाध्यः प्रमाणलक्षणाप्रवीणानामपि गोपालबालाबलादीनां तथाव्यवहारदर्शनात् । ततश्च प्रमाणलक्षणस्याविसंवादिज्ञानं प्रमाणमित्यादेरुक्तौ प्रतिपादने । ज्ञायते उपलभ्यते न नैव प्रयोजनं फलं । 'वर्तते नेति' वक्तव्ये 'ज्ञायते नेति' यदुक्तमाचार्येण तदतिवचनपारुष्यपरिहारार्थं । यस्त्वत्रायमुदयनस्योपालम्भः'-ये तु प्रमाणमेव सर्वस्य व्यवस्थापकं, न तु लक्षणं, तदपेक्षायामनवस्थेत्याहुस्तेषां “निन्दामि च पिबामि चेति” न्यायापातः । यतोऽव्याप्त्यतिव्याप्तिपरिहारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते तदेव तु लक्षणम् । 'अनुवादः स' इति चेदस्माकमप्यनुवाद एव, न ह्यलौकिकमिह किञ्चिदुच्यते । न चानवस्था वैद्यके रोगादिलक्षणवढ्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि संमुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” । स त्वत्र न शोभते, यतो वयं प्रमाणस्यार्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं न प्रयोजकमिति बूमो न तु सर्वत्रैव तदप्रयोजकमिति । समानासमानजातीयव्यवच्छेदस्य तदर्थस्य तत्र तत्र व्यवस्थितत्वात् । सामान्यतो व्युत्पन्नस्य तच्छास्त्रादधिकृतविशेषप्रतीत्यपर्यवसानेनानवस्थाभावात् केवलं केवलव्यतिरेक्येव लक्षणमिति नादरः, प्रमेयत्वादेरपि पदार्थलक्षणत्वव्यवस्थितरित्यन्यत्र विस्तरः । वस्तुतो धर्मवादे लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाहिंसादीनां तादृशधर्मान्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनासद्ग्रहनिवत्तेः । अन्यथैवोपपत्तेरितरभिन्नत्वेन ज्ञानस्य तत्साध्यस्यात्रानुपयोगात्संमुग्धज्ञानेनैव कार्यसिद्धिरित्यत्र तात्पर्यम् ।।८-१२।।
“પ્રત્યક્ષ વગેરે પ્રમાણો પ્રસિદ્ધ છે. તેમ જ પ્રમાણાદિથી કરાતો સ્નાન - પાનાદિ વ્યવહાર (प्रवृत्ति) ५५। प्रसिद्ध छे. प्रभासन निर्वयनkो प्रयो४ तुं नथी." - मा प्रभारी
વાદ બત્રીશી