________________
93
64हेश५६ : माग-२ આ વિષે વિદ્વાનો કહે છે કે-“જે કાર્યને કરે તે જ પરમાર્થથી સત્ છે.” તેથી ઉક્ત પ્રકારનું જ્ઞાન ફળ ન મળવાથી મિથ્યાદૃષ્ટિનું શાસ્ત્રાભ્યાસ આદિથી થયેલું જ્ઞાન પણ અજ્ઞાન છે. (૪૪૪)
एनामेव गाथाचतुष्टयेन व्याचष्टेएगंतणिच्चवाए, अणिच्चवाए सदसदविसेसो । पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥४४५॥
'एकान्तनित्यवादे' एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे परैः साङ्ख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम्, तिलतुषत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-"अयमेव भेदो भेदहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । 'अनित्यवादे' चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्राय:यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्वयोत्पादस्योभयत्रापि समानत्वात्, न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः। अनित्यवादेऽपि पुरुषादन्यो देवो देवाच्च पुरुष इति। ततो यथा पुरुषस्य विद्यमानताकाले कश्चिद्देवतयोत्पन्न एकान्तेनैवान्यस्तथा तन्मरणानन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुषसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तस्मात् सदसतोरविशेष इति ।।४४५॥
આ જ ગાથાને (=૪૪૪મી ગાથામાં કહેલા વિષયને) ચાર ગાથાઓથી કહે છે
ગાથાર્થ_એકાંત નિત્યવાદમાં અને એકાંત અનિત્યવાદમાં પિંડ એ જ ઘટ જ છે. દેવ પુરુષથી અન્ય છે એ દૃષ્ટાંતથી સત્-અસનો અભેદ થાય છે.
ટીકાર્થ–(આ ગાથાનાં અર્થને સમજવા સાંખ્ય આદિ દર્શનની માન્યતાને સમજવી જરૂરી છે. સાંખ્યો અભેદવાદી હોવાથી કારણ અને કાર્ય અભિન્ન છે એમ માને છે. બૌદ્ધ,