________________
૩૭૨
ઉપદેશપદ : ભાગ-૨ पुहविपुरम्मि उ पुण्णो, राया बुद्धी य तस्स मंतित्ति । कालण्णुणाण मासुवरि वुट्ठि दगगह सुवासं तो ॥८४४॥ रायणिवेयण पडहग, दगसंगह जत्तओ अहाथामं । वुट्ठि अपाणं खीणेपाणम्मी गह कमा पायं ॥८४५॥ सामंताईयाण वि, ढक्कं वासं दवं च रणोत्थि । तेसिं मंतण णिवगह, बंधामो मंतिणाणं ति ॥८४६॥ सिट्टे णत्थि उवाओ, तं दग कित्तिमगहो य मिलणंति । तोसो रज्जम्मि ठिती, सुवास सव्वं तओ भई ॥८४७॥
तत्र पृथ्वीपुरे नगरे पूर्णो नाम राजा, बुद्धिश्च तस्य 'मन्त्री' सचिव इति। अन्यदा कालज्ञस्य कस्यचित् ज्ञानमभूत्। यथैतन्मासोपरि वृष्टिर्भविष्यति। 'दगगहति' तवृष्ट्युदकाच्च पीताद् ग्रह उन्मादः संपत्स्यते लोकानां। 'सुवासं तो' इति। ततः कियत्यपि काले गते सुवर्षं सुवृष्टिर्भविष्यति। तस्मिंश्च सुन्दरे सम्पन्ने सर्वं सुन्दरं भविष्यति। प्रज्ञप्तं तेन राजपुरतः ॥ ८४४॥
एवं कालज्ञेन कथिते राज्ञा निवेदना लोकस्य 'पडहगत्ति' पटहकप्रदापनेन कृता। तत उदकस्य संग्रहो यत्नतो यथास्थाम यथासामर्थ्यं कृतः सर्वेणापि लोकेन। वृष्टिर्निरूपितमासोपरि संवृत्ता, अपानं तजलस्य। क्षीणे संगृहीते जले पाने प्रवृत्ते नव्यनीरस्य, ग्रह उन्मादरूपः क्रमात् प्रायो बाहुल्येन लोकस्य संवृत्तः ॥८४५॥ .. सामन्तादीनामपि प्रचुरतरगृहीतादूषितजलानां तज्जलक्षये ढुक्कमुपस्थितं वर्ष दूषितवृष्टिनीरं, तेऽपि तत्पीतवन्त इत्यर्थः। द्रवं च पुराणपानीयस्यन्दसंग्रहो राज्ञोऽस्ति न पुनरन्यस्य कस्यचित्। ततो राजाऽग्रहिलतया यदा तेषां सामन्तादीनां न कासुचिच्चेष्टासु मिलति, तदा तेषां मन्त्रणमभूत्–'निवगहत्ति'। यथाऽयं नृपोऽस्मासु सत्सु राज्यसुखभागी भवति, अस्मन्मताननुवर्तकस्तु कियच्चिरं राज्यं करिष्यतीति गृहीत्वा बनीम एनम्। एवं मन्त्रयमाणानां तेषां मन्त्रिणो बुद्धेनिमभूदिति ॥ ८४६॥ - ततः शिष्टे (ग्रं०१२०००) मन्त्रिणा नृपस्य नास्त्यन्य उपाय एतदनुवर्त्तनमन्तरेण राज्यजीवितव्ययो रक्षणे इति तत्पुराणोदकमुदकं पिबता सता कृत्रिमग्रहश्च कृत्रिम एव ग्रहो दर्शितो, राज्ञा मिलनं कृतम्। ततस्तेषां मध्ये इत्येतेषां तोषः प्रमोदो राज्ये स्थितिर्निश्चलतारूपा जाता। कालेन सुवर्षमभूत्। सर्वं ततो भद्रं संवृत्तम्॥ ८४७॥