________________
उपदेशप: भाग-२
૨૨૩
ઉપસંહાર કરતા ગ્રંથકાર કહે છે—
ગાથાર્થ- ચારિત્ર રૂપ ગુણસ્થાન પ્રાપ્ત થયે છતે વિશિષ્ટ ક્ષયોપશમના યોગથી ભવ્યજીવોને આવા પ્રકારનો જ ભાવ થાય છે.
ટીકાર્થ—વિશિષ્ટ ક્ષયોપશમના યોગથી—ચારિત્રમોહનો વજપથ્થરની જેવો જે અત્યંત ગાઢ ક્ષયોપશમ, તે ગાઢ ક્ષયોપશમના યોગથી.
ભવ્યજીવોને=જેમનું મોક્ષગમન નજીકમાં છે તેવા જીવોને.
આવા પ્રકા૨નો જ ભાવ=કષ્ટની પ્રાપ્તિ થવા છતાં ગુપ્તિ–સમિતિઓનું ઉલ્લંઘન ન થાય તેવો પરિણામ.
જે મુનિઓ નિવૃત્તચારિત્રમોહવાળા અને મહાસત્ત્વવંત હોય તે જ મુનિઓ પ્રાણનાશમાં પણ સમિતિ–ગુપ્તિનો ભંગ કરતા નથી. (૬૬૩)
कुत एतदिति चेदुच्यते
देहाऽसामत्थम्मिवि, आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि, तुच्छोवि अकज्जमायरति ॥६६४॥
'देहासामर्थ्येऽपि' दुष्कालरोगवार्द्धकादिकारणैर्देहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, 'आशयशुद्धिः' परिणामनैर्मल्यरूपा 'न' नैवौघतः सामायेनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह - 'चरणे' सर्वसावद्यपरिहारलक्षणे । यच्चौघत इत्युक्तं, तत् तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग् मालिन्यमपि कदाचित् संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह—'सुपुरुषः' शान्तदान्तस्वभावः, स च विशेषतः "असत्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधैरसद्भूतैर्भूतैर्यदि भवति भूतेरभवनि: । सहिष्णोः सद्बुद्धेः परहितरतस्योन्नतमतेः, परा भूषा पुंसः स्वविधिविहितं वल्कलमपि ॥ १ ॥" इत्यध्यवसायप्रधानः पुरुषविशेष:, 'न' नैव हिर्यस्मात् 'तुच्छोऽपि शरीरविभवसहायादिबलविकलतया कृशीभूतोऽपि किं पुनरितरः, 'अकार्यं' कुलकलङ्कादिकारणं कृत्यविशेषमैहिकं पारत्रिकं च समाचरत्यासेवते । तथा च पठन्ति - " निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥१ ॥ " सुपुरुषशिरोरत्नभूतश्च चारित्री, कथमस्यान्यथा भावशुद्धिः सम्पत्स्यते ? इति ॥६६४ ॥