________________
उपदेशप: : भाग-२
अण्णोण्णभित्तिजवणिगकिरिया छम्मासओ उ एगेण । णिम्मवणं अन्नेणं, भूमीकम्मं सुपरिसुद्धं ॥ ३६३॥ रायापुच्छणमेगो, णिम्मवियं बीय भूमिकरणम्मि । आहुस्सुगणिवदंसण, चित्ते तोसो उचियपूजा ॥३६४॥ जवणीविक्खेवेणं, तस्संकम रम्म रायपासणया । किं वेयारसि ण हु देव ! संकमो जवणिगा णो उ ॥ ३६५॥ रणो विम्हय तोसो, पुच्छा एवं तु चित्तविहि सम्मं । भावण वण्णगसुद्धी, थिर वूड्डि विवज्जओ इहरा ॥ ३६६ ॥
अथोल्लिङ्गितगाथाक्षरार्थः -
3
'दूयापुच्छण 'त्ति दूतस्य पृच्छा समभूद् 'राज्ञो' महाबलस्य, यथा किं वस्तु मम नास्ति ? स आह- देव चित्रसभा नास्ति । तदनन्तरमेव द्वयोश्चित्रकरयोरादेशो दत्तः 'णिम्मवण 'त्ति निर्मापनाविषयः । तदन्वेव प्रधानचित्रकरबहुमानः प्रवृत्तः ॥३६२॥
‘अन्नोन्नभित्तिजवणिगकिरिया' इति अन्योऽन्यं परस्परभित्त्योश्चित्रयितुमारब्धयोर्जवनिकाक्रिया विहिता मध्ये काण्डपटस्थापनेनादर्शनं कृतमित्यर्थः । ततः षण्मासतस्तु' षण्णां मासानां पर्यन्ते एवैकेन विमलनाम्ना चित्रकारेण निर्मापणं चित्रस्य कृतम् । 'अन्येन' प्रभाकरनाम्ना 'भूमीकर्म' चित्रभूमिकानिष्पत्तिरूपं सुपरिशुद्धमिति ॥३६३॥
राजप्रच्छनमभूत् । एको विमलनामा निर्मापितं चित्रमिति, द्वितीयस्तु भूमिकर्मेति 'आह' ब्रूते । तत उत्सुकस्य नृपस्य दर्शनं समजनि । चित्रे भित्तिगते तोषो राज्ञः । उचितपूजा कृता विमलस्येति ॥ ३६४ ॥
ततो ' 'जवनिकाविक्षेपेण' काण्डपटापसारेण 'तत्संक्रमेण' द्वितीयभित्तिगतचित्रसंक्रमेण रम्यस्यातिशायिनश्चित्रस्य राज्ञो दर्शनमकारि । जातवैलक्ष्यश्च नृपतिराहकिमस्मान् विप्रतारयसि वञ्चयसि ? प्रभाकरः 'न हु' नैव देव ! विप्रतारयामि । यतः 'संक्रमो' द्वितीयभित्तिगत एषः । ततो जवनिका दत्ता । 'नो तु' नैव संक्रमो वृत्तः ॥३६५॥
राज्ञो विस्मयतोषौ सम्पन्नौ । तथा, पृच्छा कृता, किमेवं भवता भूमिकाशुद्धिरारब्धेति । भणितं च तेनैवं त्वनेनैव 'विधिना' भूमिकाशुद्धिलक्षणेन