________________
उ०८
ઉપદેશપદ : ભાગ-૧ અહીં સંક્ષેપમાં સાર એ છે કે– અજ્ઞાની જીવો અહિંસા એ જ સારભૂત ધર્મ છે એમ સમજીને ગરુકુલવાસ વગેરે સર્વને ત્યાગ કરીને કેવળ અહિંસામાં જ ઉત્સાહ રાખે છે. પણ અજ્ઞાનતાના કારણે અહિંસાનું ફળ મેળવી શકતા નથી. (૧૮૩).
अथैतदेवान्वयत आहअन्नो उ का अहिंसा, आगमओ सो गुरूउ विहिणा उ । एयम्मि कुणति जत्तं, लोउत्तरणीतितो मतिमं ॥१८४॥
'अन्यस्तु' प्रागुक्तधार्मिकविलक्षणः पुनः धार्मिक एव 'मीमांसते' इति गम्यते । कथमित्याह-'का' कीदृशी हेतुतः, स्वरूपतोऽनुबन्धतश्च 'अहिंसा' निखिलकुशललोकाभिनन्दनीया वर्त्तते । न चासावन्यथा यथावदवगन्तुं शक्यते, किन्त्वागमतः । आगमादाप्तवचनरूपात् । यथोक्तं-"परलोकविधौ शास्त्रात्, प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥१॥उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः। धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥२॥पापमयौषधंशास्त्रं, शास्त्रं पुण्यनिबन्धनम्। चक्षुः सर्वत्रगंशास्त्र, शास्त्रं सर्वार्थसाधकम् ॥३॥" तथा "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति हिंसाहे तोः स्वरूपस्य च निर्देशः । "यदस्ति दुःखं त्रैलोक्ये, व्याधितश्चाधितस्तथा । तद्धिंसाविषवृक्षस्य, प्रोच्यते सकलं फलम् ॥१॥ एतद्वैलक्षण्येन चाहिंसाया योजना कार्या । 'सो गुरूउ' इति स आगमः सूत्रार्थोभयरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः 'गुरूउ' इति गुरुभ्यः सकाशाल्लभ्यते । गुरुलक्षणं चेदं, यथा"गुरुगृहीतशास्त्रार्थः, परां निःसङ्गतांगतः।मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने॥१॥ गुणानां पालनं चैव, तथा वृद्धिश्च जायते ।यस्मात्सदैव स गुरुर्भवकान्तारनायकः॥२॥" अत एवान्यत्रोच्यते-"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ॥१॥संसारसमुद्भूतकषायदोषं, लिलङ्घिषन्ते गुरुणा विना ये। विभीमनक्रादिगणं ध्रुवंते, वार्धिं तितीर्षन्ति विना तरण्डम् ॥२॥"इति॥कथमित्याह'विधिना तु'विधिनैव कालविनयबहुमानादिना, अविधिलब्धस्य श्रुतस्य प्रत्युतापायफलत्वेनालब्धकल्पत्वात् । अपायाश्चामी-"उम्मायं च लभेजा, रोगायंकं व पाउणे दीहं । तित्थयरभासियाओ धम्माओवाविभंसेज्जा"॥१॥"इति।तत एतस्मिन् विधिना गुरुभ्यो लभ्यमाने आगमे कुरुते यत्नमादरं शुश्रूषाश्रवणग्रहणादिरूपं लोकोत्तरनीत्या लोकाद् गतिकानुगतिकरूपलोकहेरिप्रवृत्तात् कृतीर्थिकादिभेदभिन्नादुत्तरा उपरिवर्तिनी नीतिाय१ क. वै भीम-।