________________
૨૮૪
64हेश५६ : मारा-१ कालस्वभावनियतिपूर्वकृतपुरुषकाररूपा एकान्ताः सर्वेऽप्येककाः मिथ्यात्वं, तत एव समुदिताः परस्परात्यजत्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः । ____ तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहि -सर्वस्य शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्यास्यान्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं-"काल: पचति भूतानि, कालः संहरते प्रजाः ।कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥" असदेतत्, तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव, नित्यैकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात्, स्वभावभेदाद् भेदसिद्धेः । न च वायुमण्डलादिकृतो वर्षादिर्विशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य हेतुः, इतरेतराश्रयदोषप्रसक्तेः सति कालभेदे वर्षादिभेदहे तोग्रहमण्डलादेर्भेदः, तद्भेदाच्च कालभेद इति परिस्फुटमितरेतराश्रयत्वम् ।अन्यतः कारणाद् वर्षादिभेदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः, कालस्य च कुतश्चिद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्यकारणत्वंयुक्तं, क्रमयोगपद्याभ्यांतद्विरोधात् ।तन्न काल एवैकः कारणंजगतः॥१॥
अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा स्वात्मनि क्रियाविरोधो दोषः । नह्यव्युत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानांतु स्वभावसंगतावपि प्राक्स्वभावाऽभावेऽप्युत्पत्तेर्निर्वृत्तत्वाद् नस्वभावस्तत्र कारणं भवेत् ।अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमित्तजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः। तथा हि- अध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव। यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद्यस्य विकारः, तत्तस्य कारणत्वमुच्यते। उच्छूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्णादेरन्वयव्यतिरेकवदध्यक्षानुपलम्भाभ्यां कारणतया निश्चितमिति न स्वभावैकान्तवादोऽपि ज्यायान् ॥२॥
सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तदुक्तं-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" असदेतत्, शास्त्रोपदेशवैयर्थ्यप्रसक्तेः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्धेर्नियत्यैव